________________
हरिवंशपुराणं।
पंचमः सर्गः। तावदेव समागत्य सीताऽसौ नीलपर्वते । तावत्येव समापत्य प्राग्विदेहान् विभेद च ॥१५८ ॥ दक्षिणाभिः समा नद्यः षड्भिस्ताश्च षडुत्तराः। यथायोग्यं प्रपातायैः प्रतिपाद्याः प्रतिद्विक।।१५९॥ गंगा चैव नदी रोह्या हरित् सीताच पूर्वगाः। नारी सुवर्णकूला च सरक्ताः परगाः पराः॥१६०॥ श्रद्धावान् विजयावांश्च पद्मवांश्चापि गंधवान् । मध्ये हैमवतादीनां विजयार्दास्तु वर्तुलाः ॥१६॥ योजनानां सहस्रं स्यान्मूले विस्तृतिरुच्छिातेः । तदधं मस्तके मध्ये पंचाशत् सप्तशत्यपि ॥१६२।। योजनार्द्धन न प्राप्ता नद्यो नाभिगिरीनिमान् । गता प्रदक्षिणा सीतासीतोदे मंदरं यथा ॥१६३॥ प्रासादेषु शिरस्येषां स्वातिरप्यरुणः परः । पद्मश्चापि प्रभासश्च व्यंतरा निवसति ते ॥१६४॥ क्षेत्रपर्वतनद्याद्या येऽत्र द्वीपे प्रकीर्तिताः। द्विगुणा धातकीखंडे पुष्कराढ़े च ते स्थिताः ॥१६५॥ द्वीपानतीतसंख्यातान जंबूद्वीपः परः स्थितः । संति तत्र पुरोऽमीषामत्र ये गदिताः सुराः ॥१६६॥ नीलमंदरमध्यस्था उत्तराः कुरवो मताः । स्थितास्तु देवकुरवः सुमेरुनिषधांतरे ॥१६७॥ द्वाचत्वारिंशदष्टौ च शतानि व्यासतो मताः । एकादशसहस्राणि कुरवस्ते कलाद्वयं ॥१६८॥ ज्या च तेषां त्रिपंचाशत्सहस्राणि धनुः पुनः । षष्टिश्चतुःशती चाष्टौ दशांशा द्वादशाधिकाः ॥१६९॥
१ द्वीपानतीत्य संख्यातान जंबूद्वीपोपरः स्थितः इत्यपि पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org