SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं। पंचमः सर्गः। शिखिरे च गिरेस्तस्य मूले मध्ये च मस्तके । त्रीणि द्वे च सहस्रं च विस्तारेण धनूंषि तु ॥१४५॥ अंतः पंचशतायामं तदर्थं चापि विस्तृतं । द्विसहस्रधनुस्तुंगं भाति वज्रमयं गृहं ॥ १४६ ॥ अशीतिधनुरुद्विद्धं चत्वारिंशच विस्तृत । तत्र वज्रकपाटाख्यं द्वारं वज्रमयं गृहे ॥ १४७ ॥ यात्वा दक्षिणतः कुंडान् कचित् कुंडलगामिनी।गुहायां विजयार्द्धस्य विस्तृता साष्टयोजनीं।।१४८॥ चतुर्दशसहस्रेस्तु प्रवेशे सारितामसौ । सार्द्धद्विषष्टिविष्कंभा प्रविष्टा पूर्वसागरं ॥ १४९ ॥ योजनानि त्रिनवति त्रिगव्यूतानि चोच्छूितं । गाधतो योजनार्दू स्यात् सरिद्विस्तारतोरणं॥१५०॥ सर्वप्रकारतः सिंधुः समाना गंगया ततः। आविदेहाच्च सरितां द्विगुणं जिहिकादिकं ॥१५॥ तोरणान्यवगाहेन समस्तानि समानि तु । वसंति तेषु सर्वेषु दिक्कुमार्यो यथायथं ॥ १५२ ॥ षट्सप्तति कलाषट्कं योजनानां शतद्वयं । गत्वाऽद्रौ रोहितास्यांतो निपत्य श्रीगृहेऽगमत् ॥१५३॥ शतानि षोडशा द्रौ तु रोह्या पंचयुतानि सा । कलाश्चागम्य पंचागाद् गिरेः पंचाशदंतरं ॥१५४॥ तावदेव गता शैले हरिकांतोत्तरां दिशं । समुद्रं पश्चिम याता प्राप्य कुंडं शतांतरं ॥ १५५॥ चतुःसप्ततिसंख्यानि शतानि कलया हरित् । एकविंशतिमागम्य निषधे ह्यपतच्छते ॥ १५६ ॥ सीतोदाऽपि गिरिं गत्वा तावदेव चतुःशती । उल्लंघ्यापतदद्रेः सा योजनानां शतद्वये ॥१५७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy