SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । पंचमः सर्गः । गंगा पूर्वेण पद्मस्य द्वारेणानुनगं गता । सिंधुरप्यपरेणास्य रोहितास्योत्तरेण तु ॥ १३२ ॥ महापद्मदात् रोह्या हरिकांता च निःसृता । हरिता सह सीतोदा तिगिच्छहृदतस्तथा ॥१३३॥ केशरीहृदतः सीता नरकांता च निर्गता । नारी च रूप्यकूला च सा महापुंडरीकतः ॥ १३४ ।। सुवर्णकूलया रक्ता रक्तोदा पुंडरीकतः। द्वारेण तोरणोद्भासा विनिःक्रांता महानदी ।।१३५॥ षड् योजनानि गव्युतं व्यासो वज्रमुखस्य सः। अवगाहार्द्धगव्य॒तं गंगाया निर्गमे स्मृतं॥१३६।। योजनानि नवोद्विद्धमष्टांशत्रितयं तथा । तोरणं तत्र विज्ञेयं विचित्रमणिभास्वरं ॥ १३७ ॥ प्राप्य पंचशतीं प्राचीमावर्तेन निवर्त्य च । गंगाकूटादपाची सा भारतव्यासमागता ॥ १३८ ।। शतयोजनमाकाशं चाधिकं चातिलंध्य सा । न्यपपतत्पर्वताद्दूरे पंचविंशतियोजने ॥ १३९ ।। षड्योजनी संगव्यूतां विस्तीर्णा वृषभाकृतिः। जिह्निका योजनार्द्ध तु बाहुल्यायामतो गिरौ।।१४०॥ तयैत्य पतिता गंगा गोश्रृंगाकारधारिणी । श्रीगृहाग्रेऽभवद् भूमौ दशयोजनविस्तृता ॥ १४१ ॥ षष्टियोजनविस्तीर्ण वज्रकुंडमुखं भुवि । अवगाहो दशास्यापि मध्ये द्वीपो व्यवस्थितः ।। १४२॥ अष्टयोजनविष्कंभः सोऽभसः क्रोशयोर्द्वयं । ऊर्जितस्तस्य चान्योऽस्ति मूर्धि वज्रमयोऽचलः॥१४३॥ चत्वारि च गिरिदै च तथैकं च दशोमतिः। योजनानि स विस्तीर्णो मूले मध्ये च मूर्धनि॥१४४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy