________________
हरिवंशपुराणं ।
पंचमः सर्गः। तेषां तु मध्यदेशेषु पूर्वापरसमायताः । षण्महाकुलशैलानां षड् महांतो हृदाः स्थिताः ॥ १२०॥ पद्मश्चापि महापद्मस्तिगिंछ केसरी ह्रदः । सुमहापुंडरीकश्च पुंडरीकश्च नामतः ॥ १२१ ।। चतुर्दश विनिर्गत्य सरितः पूर्वसागरं । तेभ्यो विशंति सप्तव सप्तवापरसागरं ॥ १२२ ॥ गंगा सिंधुश्च रोहिच्च रोहितास्या हरित सरित् । हरिकांता च सीता च सीतोदाऽपि च नामतः॥१२३॥ नारी च नरकांता च तथैव परिवर्णिता । सुवर्णकूलया साकं रूप्यकूला पराऽपगा ॥ १२४ ॥ रक्तया सह रक्तोदा ताश्च सर्वा यथायथं । नदीबहुसहस्रेस्तु भवंति सहिताः क्षितौ ॥ १२५ ॥ सहस्रयोजनायामः पद्मः पंचशतानि च । योजनानि स विस्तीर्णो दश स्यादवगाहतः ॥१२६ ॥ हिमवद्वेदिकानुल्या परिक्षिपति वेदिका । समंततस्तमापूर्ण शुभशीतलवारिणा ॥ १२७ ॥ योजनोच्छ्रितविष्कभं पुष्करं पुष्करेंभसः । निष्क्रम्य योजनाधं तु काशते क्रोशकर्णिकं ॥१२८॥ द्विगुणद्विगुणायामविष्कभादौ हूदांतरे । दक्षिणोत्तरभागस्थे पुष्कराणि चकासते ॥ १२९ ॥ पुष्करेषु वसंत्युच्चैः प्रसादेषु यथाक्रमं । श्रीड्यिौ धृतिकीत्यौ च बुद्धिलक्ष्म्यौ च देवताः ॥१३०॥ ताश्च पल्योपमायुष्काः सौधर्मेंद्रस्य दक्षिणाः। ऐशानस्योत्तरा देव्यः ससामानिकसंसदः ॥१३१॥
१-रोह्या च इति क ग पुस्तकयोः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org