SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । पंचमः सर्गः हिमवत्कूटतुल्यानि तानि कूटानि शोभया। आदिमध्यांतविस्तारुच्छ्रायेण च चारुणा ॥१०८।। तथैरावतमध्यस्थविजयाईस्य मूर्धनि । हेठंति नवकूटानि सुरत्नमणिसंकटः ।।१०९।। सिद्धायतनकूटं स्यादुत्तरार्धाभिधानकं । तामिस्सगुहकूटं च मणिभद्रमतः परं ॥११०॥ विजयाधुकुमाराख्यं पूर्णभद्राख्यमप्यतः । खंडकादिप्रपातं च दक्षिणाधं च नामतः ।।१११॥ नवमं तु तथाख्यातं कूटं वैश्रवणश्रुतिः । तानि सर्वाणि तुल्यानि भारतीयैः प्रमाणतः ॥११२॥ पूर्वापरायतानां हि पण्णां तत्कुलभूभृतां । सप्तक्षेत्रविभक्तृणामेकैकस्योभयांतयोः ॥११३॥ सर्वतुकुसुमाकीर्णफलभारनतद्रुमैः । हारिणौ पक्षिसंघातमधुकृन्मधुपस्वनैः ॥११४॥ अर्द्धयोजनविस्तीर्णौ विचित्रमणिवेदिकौ । भवतो वनखंडी द्वौ पर्वतायामसम्मितौ ॥ ११५ ॥ अर्धयोजनमानस्तु वेदिकोत्सेध इष्यते । वेदकैप्सतत्त्वस्य व्यासः पंचधनुःशती ॥ ११६ ।। सुरत्नपरिणामानि नानावर्णानि सर्वतः । वेदिकोचितदेशेषु तोरणानि भवंति च ॥ ११७ ॥ भूभृतामुपरि ज्ञेया सर्वतः पद्मवेदिका । मणिरत्नमयी दिव्या गव्यूतिद्वयमुच्छ्रिता ।। ११८ ॥ गृहद्वीपसमुद्राणां भूनदीहृदभूभृतां । वेदिकोत्सेधविस्तारौ तिर्यग्लोके स्थिताविमौ ॥ ११९ ।। १-हठंते इति क ग पुस्तकयोः । हठप्लुतिशठत्वयोः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy