________________
हरिवंशपुराणं ।
पंचमः सर्गः ।
द्वे सहस्रे शतैर्युक्ते नवभिश्चैकविंशतिः । साधिकाष्टादशांशाश्रा विदेहार्द्धस्य चूलिका ॥९५॥ त्र्यशीतिश्च शतान्यष्टौ सहस्राणीह षोडश । त्रयोदशांशकाः पादः साधिका भुजाद्वयं ॥ ९६ ॥ प्रमाणं दक्षिणार्द्धे यद् द्वीपस्य प्रतिपादितं । वोध्यं तदुत्तरार्धेऽपि क्षेत्र पर्वतगोचरं ॥ ९७॥ ज्यायां ज्यायां विशुद्धायां शेषार्द्धं चूलिका स्मृता । चापे चापे विशुद्रेऽर्द्ध तथा पार्श्वभुजा हि सा || ९८|| वैडूर्यमयनीलस्य सिद्धायतननामकं । नीलकूटं च तत्पूर्वविदेहाद्युपरि स्थितं ।। ९९ । सीताकूटं चतुर्थं स्यात्कीर्तिकूटं च पंचमं । नरकांतादिकं षष्ठं ततोऽपरविदेहकं ॥ १००॥ रम्यकाद्यष्टमं कूटमपदर्शनकं त्विह । उच्छ्राय मूलमध्यांत विष्कंभो निषधेषु यः ॥१०१॥ रौक्मस्य रुक्मिणोऽप्यग्रे सिद्धायतनमादितः । रुक्मिकूटं द्वितीयं स्यात् तृतीयं रम्यकादिकं ॥ १०२ || नारीकूटं तुरीयं तु बुद्धिकूटं तु पंचमं । रूप्यकूटं परं कूटं हैरण्यवतपूर्वकं ॥ १०३ ॥ मणिकांचनकूटं च सामान्योच्छ्रायतस्तु ते । मूलमध्याग्रविस्तारैर्महाहिमवति स्थतैः ॥ १०४॥ कूटान्येकादशैवाग्रे हैमस्य शिखरिश्रुतेः । सिद्धायतनमाद्यं स्यात् कूटं शिखरिपूर्वकं ॥ १०५ ॥ हैरण्यवतकूटं च सुरदेवीपुरःसरं । रक्तालक्ष्मी सुवर्णादिकूटानि च यथाक्रमं || १०६ || तथा रक्तवती कूटं गंधदेव्यास्ततः परं । तथैरावतकूटं च पाश्चात्यं मणिकांचनं ॥ १०७॥
Jain Education International
७८
For Private & Personal Use Only
www.jainelibrary.org