SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं। पंचमः सर्गः॥ चतुर्नवतिसंख्यानि सहस्राणि शतं तथा। षट्पंचाशद्विभागौ च साधिको ज्याऽस्य भूभृतः ।।८२॥ लौकात्र सहस्राणि चतुर्विशतिरंशकाः । साधिका नव चापं षट्चत्वारिंशच्छतत्रयं ॥३॥ धनुषोऽस्य त्रयस्त्रिंशन्सहस्राणि शतं तथा । सप्तपंचाशदेव स्यादिषुः सप्तदशांशकाः ॥८४।। तथा दशसहस्त्राणि शतं स्यात्सप्तविंशतिः । साधिकौ च परौ भागौ चूलिका निषधस्य सा ॥८५॥ विंशतिश्च सहस्राणि पंचषष्टियुतं शतं । साधिकार्धाधिको भागौ प्रमाणं भुजयोरिह ।।८६।। तपनीयमयस्यास्य निषधस्यापि मूर्धनि । भासते नवकूटानि सर्वरत्नमरीचिभिः ॥८७।। सिद्धायतनकूटं च कूटं तनिषधादिक । हरिवषादिकं पूर्वविदेहादिकमेव तत् ।।८८॥ हीकूटं धृतिकूटं च शीतोदाकूटमेव च । विदेहकूटमित्येकं रुचकं नवमं मतं ॥८९॥ उच्छायो योजनशतं विष्कंभश्चापि मूलजः । पंचाशन्मस्तकेऽमीषां मध्येऽसौ पंचसप्ततिः॥९॥ त्रयस्त्रिंशत्सहस्राणि विदेहस्य च षट्शती। तथा चतुरशीतिश्च विस्तारश्चतुरंशकाः ॥९१।।। ज्या स्याच्छतसहस्राणि योजनानि प्रमाणतः । जंबूद्वीपप्रमाणेन कृतस्पर्द्धन साम्यतः ॥९२।। अष्टापंचाशदिष्टानि सहस्राणि शतं धनुः । त्रयोदशैकलक्षांशाः साधिकार्धन षोडश ॥९३।। पंचाशच सहस्राणि योजनानीषुरिष्यते । महतो धनुषस्तस्य माहिती युज्यते हि सा ॥१४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy