SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ७६ हरिवंशपुराणं । पंचमः सर्गः। सहस्राणि नव दे तु शते षट्सप्ततिर्नव । भागा भुजद्वयं तस्य साधिकार्द्धकलाधिकाः ॥६९॥ अष्टार्जुनमयस्यास्य कुटानि शिखरे गिरेः। रत्नरंजितसानूनि नित्यानि संति भांति च ॥७०॥ सिद्धायतनकूटं स्यान्महाहिमवदादिकं । कूटं हैमवतं कूटं रोहिता कूटमप्यतः ॥७१॥ हीकूटं हरिकांतादि हरिवर्षादिकं हि तत् । वैडूर्यकूटमप्येषां पंचाशद्योजनोच्छ्रितिः ॥७२॥ पंचाशद्योजनो मौलो विष्कंभो मध्यगोचरः । सप्तत्रिंशत्तथाई च मस्तके पंचविंशतिः ॥७३॥ स्यादष्टौ हि सहस्त्राणि चतुःशत्येकविंशतिः । हरिवर्षस्य विस्तारो भागश्चैकोनविंशतः ॥७४॥ शतानि नव सैकानि सहस्राणि त्रिसप्ततिः । ज्यापि चास्य विशेषेण भागाः सप्तदशाधिकाः।।७५।। अस्याश्चतुरशीतिश्च सहस्राणि पुनर्भवेत् । षोडशाऽपि धनुज्यायाश्चतस्रः साधिकाः कलाः ॥७६॥ षोडशाऽस्य सहस्राणि योजनानां शतत्रयं । इषुः पंचदश ज्ञेया सह पंचदशांशकैः ॥७७॥ सहस्राणि नवान्यानि शतानि नव चूलिका । पंचाशीतिश्च पंचांशाः सहाईकलया तु सा ॥७८॥ त्रयोदशसहस्राणि त्रिशती षष्टिरेककं । साधिकार्धाधिकार्धाः षट् भागास्तत्र भुजप्रमा ॥७९॥ द्वाचत्वारिंशदष्टौ च शतान्यन्यानि षोडश । सहस्राणि च भागौ हौ विष्कंभो निषधस्य च ॥८॥ उच्छायः पुनरस्य स्याद् योजनानां चतुःशती । अवगाहस्त्वधो भूमेः शतयोजनमात्रकाः ॥८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy