SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । पंचमः सर्गः। द्वे सहस्रे शतं पंच योजनानि तु पंचभिः । भागे हैमवतस्यापि विष्कंभः पुष्कलो मतः ॥५७॥ सप्तत्रिंशत्सहस्राणि चतुःसप्तति षट्शती । ज्याऽपि हैमवतस्यांते न्यूनाः षोडश ताः कलाः॥ ५८॥ साष्टत्रिंशत्सहस्राणि सप्त शत्यपि नोदिता । चत्वारिंधनाया दशास्याः साधिकाः कैलाः ॥ ५९|| षट्त्रिंशच्च शतानि स्यादशीतिश्चतुरुत्तरा । योजनानि कलाश्वस्य चतस्रो धनुषस्त्विषुः ॥६० ॥ चूलिका चैकसप्तत्या त्रिषष्टिशतयोजना । साधिकैः सप्तभिर्भागैः क्षेत्रस्यास्योपवर्णिता ॥ ६१ ॥ सप्तषष्टिशतान्यस्याः पंचपंचाशता भुवः । योजनानि भुजामानं साधिकाश्च त्रयोंऽशकाः ॥६२॥ सहस्राणि तु चत्वारि दशोत्तरशतद्वयं । दशभागाश्च विस्तारो महाहिमवतो गिरेः ॥६३॥ ऊर्ध्वं च पुनरुद्यातो योजनानां शतद्वयं । पंचाशतमधो यातो धरिण्यां धरिणीधरः ॥६४॥ त्रिपंचाशत्सहस्राणि योजनानि शतानि च । नवैकत्रिंशदेतस्य ज्या षट् भागाश्च साधिकाः ॥६५॥ पंचाशञ्च सहस्राणि सप्ताऽस्य द्विशती धनुः । त्रिनवत्या सह ज्याया साधिकाश्च दांतका ॥६६॥ धनुषोऽस्य सहस्राणि सप्त साष्टशतानि तु । चतुर्नवतियुक्तानि भागाश्चेषुश्चतुर्दश ॥६७॥ एकाशीतिशतानि स्यादष्टाविंशतिरेव च । चत्वारोऽद्धाधिका भागाश्चूलिकाऽस्य महीभृतः॥६८|| १-सकलाः कलाः इति ख पुस्तके । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy