SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । ७४ पंचमः सर्गः । सहस्रमेकमष्टौ च शतानि नवतिर्द्वयं । साधिकाधष्टमांशा पूर्वापरभुजप्रमा || ४४॥ शतयोजनमानः स्यादुच्छ्रायो हिमगिरेः । अवगाहस्तु तस्यैव पंचविंशतियोजनः || ४५ || योजनानां सहस्रं तु द्वापंचाशत्समन्वितं । द्वादशापि कलाः प्रोक्ता विस्तारो हिमवद्विरेः ||४६ || चतुर्विंशतिरस्याद्रेः सहस्राणि शतान्यपि । नव द्वात्रिंशता ज्या स्यादीषदूनकलोत्तरा ॥४७॥ पंचविंशतिरस्यैव सहस्राणि शतद्वयं । योजनानि धनुत्रिंशच्चतस्रः साधिका कलाः ||४८|| सहस्रं पंचशत्येकमष्टासप्ततिरेव च । कला चाष्टादशैवारिषुरेषाऽस्य भाषिता ||४९॥ योजनानां सहस्राणि पंच तानि शतद्वयं । त्रिंशच्चूलिका ऽस्याद्रेर्भागाः सप्त च साधिकाः ॥५०॥ पंचैवास्य सहस्राणि पंचाश्च्च शतत्रयं । साधिकार्द्धेन तौ बाहू भागाः पंचदशाधिकाः ॥ ५१ ॥ भांत्येकादश कुटानि हैमस्य हिमवद्भिरेः । शिखरेऽस्य निविष्टानि पंक्त्या पूर्वपरात्मना ॥५२॥ सिद्धायतनकूटं प्राक् हिमवत्कूटमप्यतः । कूटं भरतसंज्ञं स्यादिलाकूटं ततः परं || ५३ || गंगा कूटं श्रियःकूटं रोहितास्यादिकं च तत् । सिंधुकूटं सुरादेवीकूटं हैमवतं च यत् ॥ ५४ ॥ कूटं वैश्रवणाख्यं तु पाश्चात्यं परिकीर्तितं । पंचविंशतिरुच्छ्रायः सर्वेषां योजनानि तु ॥ ५५ ॥ पंचविंशतिरेव स्याद् विस्तारो मूलगोचरः । अर्द्धत्रयोदशाग्रे तु पादोनैकोनविंशतिः ॥ ५६ ॥ 1 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy