________________
७३
हरिवंशपुराणं ।
पंचमः सर्गः। ज्या सौ नवसहस्राणि सप्तशत्यपि चाष्टभिः । चत्वारिंशद् कला द्विःषट् भारताद्धे तु दक्षिणा ॥३२॥ धनुःपृष्ठं पुनस्तस्या षट्पष्टिः सप्तशत्यपि । सहस्राणि नव ज्यायाः साधिका च कलोदितं ॥३३॥ योजनानां शते द्वे तु साष्टत्रिंशत्कलात्रयं । धनुषोऽनंतरस्येयमिषुर्भवति पुष्कला ॥३४॥ सहस्राणि दशामीषां सप्तशत्यपि विंशतिः। एकादशकला ज्यासौ विजयार्द्धनगोत्तरा ॥३५॥ ज्याया दशसहस्राणि धनुःसप्तशतीरितं । त्रिचत्वारिंशदप्यस्याःकलाः पंचदशाधिकाः ।। ३६ ॥ योजनानां प्रसिद्धेपुरष्टाशीतं शतद्वयं । उत्तरा विजयार्द्धस्य तिस्रश्चापि कलाः कलाः ॥३७॥ चूलिका विजयार्द्धस्य योजनानां चतुःशती । पडशीतिर्मनागूना भागा द्वादश कीर्तिताः ॥ ३८॥ पूर्वापरांतयोरद्ररष्टाशीति चतुःशती । प्रमाणं भुजयोरस्य भागाः षोडश चाधिकाः ॥ ३९ ॥ पट्कला भरतज्योनाः सेका सप्ततिरीरिता । चतु:शतीविमिश्राणि सहस्राणि चतुर्दश ॥ ४०॥ चतुर्दशसहस्राणि पंचशत्या तु विंशतिः । अष्टाभिभारतं भागा धनुरेकादशाधिकाः ॥४१॥ शतानि पंचविंशत्या सह षड्भिश्च षट् कलाः । प्रसिद्धेयमिषुर्भाष्या धनुषस्तस्य भारती ॥४२॥ अष्टादशशती प्रोक्ता चूलिका पंचसप्ततिः । अर्थसप्तमभागाश्च साधिका भरतक्षितेः ॥४३॥
१-जिनेशेन प्रकीर्तिताः इत्यपि पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org