________________
हरिवंशपुराणं ।
पंचमः सर्गः । क्षेत्राद द्विगुणविस्तारः पर्वतः क्षेत्रमप्यतः। आविदेहमतस्तस्य वृद्धिवच्च परिक्षयः ॥१९॥ मध्ये भारतमन्योऽद्रिरंतःप्राप्तांबुधिद्वयः । भाति विद्याधरावासो विजयाद्ध इति श्रुतः ॥२०॥ पंचविंशतिरुत्सेधः षट् सपादान्यधः स्थितः । योजनान्यस्य पंचाशद्विस्तारोरजतात्मनः ॥२१॥ योजनानि क्षितेरूचं दशोत्पत्य दशोपरि । विस्तीर्णे पर्वतायाम श्रेण्यौ विद्याधराश्रिते ॥२२॥ दक्षिणस्यां महाश्रेण्यां पंचाशनगराणि च । उत्तरस्यां पुनः षष्टिस्त्रिविष्टपपुरोपमाः ॥२३॥ योजनानि दशातीत्य पुनः संति पुराण्यतः। सुराणामाभियोग्यानां क्रीडायोग्यान्यनेकशः॥२४॥ पुनरुत्पत्य पंचोवं दशयोजनविस्तृता । श्रेणी तु पूर्णभद्राख्या विजयाद्धसुराश्रिता ॥२५॥ सिद्धायतनकूटं प्राक् दक्षिणार्द्धकमेव च । खंडकादिप्रपातं च पूर्णभद्रं ततः परं ॥२६॥ विजयार्द्धकुमाराख्यं मणिभद्रं ततः परं । तामिश्रगुहकं चान्यदुत्तराद्धं च नामतः ॥२७॥ अंत वैश्रवणाख्यं तु भांति तानि दधति तं । नगाग्रे नवकूटानि कोशषड्योजनोचिति ॥२८॥ मूले तन्मात्रमेवैषां मध्येऽप्यूनानि पंच तु । साधिकान्युपरि त्रीणि विस्तारस्तेषु भाषितः ॥२९॥ सिद्धायतनकूटे च सिद्धकूटमितीरितं । पूर्वाभिमुखमाभाति जिनायतनमुज्ज्वलं ॥३०॥ उच्छ्रायस्तस्य पादोनः कोशः क्रोशार्द्धविस्तृतिः। आयामः क्रोश एव स्यात्प्रासादस्याविनाशिनः।।
Jain Education International
For Private & Personal use only
www.jainelibrary.org