________________
हरिवंशपुराणं ।
७१
पंचमः सर्गः ।
कोटीशतानि सप्त स्युः कोटयो नवतिः स्फुटाः । षट्पंचाशत्तथा लक्षा नवतिश्वतुरुत्तरा || ६ || सहस्रगुणिता द्वीपे शतं पंचशतादिकं । योजनानि विभक्तेऽस्मिन् गणितस्य पदं विदुः ॥७॥ क्षेत्राणि संति सप्तास्त्र मेरुरेकः कुरुद्रयं । जंबूच शाल्मली वृक्षौ षडेव कुलपर्वताः ||८|| महासरांसि पर् तेषु महानद्यश्चतुर्दश । द्विषट्र्विभंगनद्यश्च वक्षागाराश्च विंशतिः ||९|| राजधान्यश्चतुस्त्रिंशद्रौप्याद्रिवृषभाद्रयः । अष्टाषष्टिर्गुहा वृत्तविजयार्द्धचतुष्टयं ॥ १० ॥ तथा त्रीणि सहस्राणि पुनः सप्तशतान्यपि । चत्वारिंशत्पुराणि स्युर्विद्याधरमहीभृतां ॥११॥ एतैः सर्वैरयं द्वीपो दीप्यते द्विगुणैरिमैः । यथाऽसौ धातकीखंडः पुष्करार्धश्च सर्वतः ॥ १२ ॥ भारतं दक्षिणं तत्र क्षेत्र हैमवतं परं । हरिक्षेत्रं विदेहं च रम्यकं च तथा परं ||१३|| हैरण्यवतमित्यन्यत् स्यादैरावतमुत्तमं । विस्तारेणाविदेहांतं क्षेत्र क्षेत्राच्चतुर्गुणं ||१४|| प्रथमो हिमवानन्यो महाहिमवदाह्वयः । पर्वतो निषधो नीलो रुक्मी च शिखरी गिरिः || १५॥ पूर्वस्मादुत्तरो भूभृद् विस्तारेण चतुर्गुणः । निषधो यावदाख्याता दक्षिणैरुत्तराः समाः || १६ || क्षेत्रस्याद्यस्य विस्तारः सपंचशतयोजनः । षड्विंशतिस्तथा भागः षड् चाप्येकोनविंशतेः ॥१७॥ जंबूद्वीपस्य विष्कंभे नवत्या च शतेन च । विभक्ते भारतस्यायं विस्तारो भवति स्फुटः ||१८||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org