SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ पंचमः सर्गः । हरिवंशपुरा तृतीयायाः द्वितीयायाः प्रथमायाश्च निःसृतः । तीर्थकृत्त्वं लभेतापि देही दर्शनशुद्धितः || ३८२॥ बलकेशवचक्रित्वं परिहृत्यैव जंतवः । नरत्वं प्रतिपद्येरन् नरकेभ्यो विनिर्गताः || ३८३ ॥ अधोलोकविभागस्ते संक्षेपेण मयोदितः । तिर्यग्लोगविभागस्य शृणु श्रेणिक ! संग्रहं ॥ ३८४ ॥ सूर्याचंद्रमसामगोचरमधोलोकांधकारं बुधः । प्रध्वस्ताऽऽप्तवचः प्रदीपविभवैः सर्वत्रगैः सर्वदा । पश्यंतःप्रभवंति तत्त्वमिति किं चित्रं त्रिलोकाकृतावालोके जिनभानुनाविरचितेध्वांतस्यवा क स्थितिः इत्यरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यकृतौ “ अधोलोकसंस्थानवर्णनो ” नाम चतुर्थः सर्गः ॥ ४ ॥ ذف पंचमः सर्गः । तनुवातांतपर्यंतस्तिर्यग्लोको व्यवस्थितः । लक्षितावधिरूर्ध्वाधो मेरुयोजनलक्षया ॥१॥ तत्रैवास्मिन्नसंख्येयसागरद्वीपवेष्टितः । जंबूद्वीपः स्थितो वृत्तो जंबूपादपलक्षितः ||२|| विस्तारेणार्णवस्पर्धिवज्रवेदिकयाssवृतः । महामेरुमहानाभिर्लक्षयोजनलक्षया ॥३॥ तिस्रो लक्षाः परिक्षेपः स्यात्सहस्राणि षोडश । योजनानि त्रिगव्यूतिर्द्विशती सप्तविंशतिः ||४|| अष्टाविंशतिसन्मित्रं तथैवान्यं धनुःशतं । त्रयोदशांगुलानि स्युः साधिकाधा गुलानि तु ||५|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy