________________
हरिवंशपुराणं ।
चतुर्थः सर्गः। स्युस्तेषामशुभतराः परिणामाः शरीरिणां। लिंगं नपुंसकाख्यं स्यात् संस्थानं हुंडसंज्ञक।।३६९॥ आगामितीर्थकर्तृणां तथैवोपशमैनसां । उपसर्गाहतिं भक्या कुर्वत्यत्यायने सुराः ॥ ३७० ॥ चत्वारिंशत्सहाष्टाभिषेटिकाः प्रथमक्षितो । अंतरं नारकोत्पत्तेरंतरज्ञैः स्फुटीकृतं ॥ ३७१॥ सप्ताहश्चैव पक्षः स्यान्मासो मासौ यथाक्रमं । चत्वारोऽपि च षण्मासा विरहः षट्सु भूमिषु ॥३७२॥ तीव्रमिथ्यात्वसंबद्धा वह्वारंभपरिग्रहाः । पृथिवीस्ताः प्रपद्यते तिर्यचो मानुषास्तथा ॥ ३७३ ॥ आद्यामसंज्ञिनो यांति द्वितीयां च प्रसर्पिणः । पक्षिणश्च तृतीयायां चतुर्थ्यां च भुजंगमाः ॥३७४॥ पंचमीमपि सिंहास्तु षष्ठीमपि च योषितः । प्रयांति प्राणिनः पापाः सप्तमी मत्स्यमानुषाः॥३७५ ॥ सप्तम्युद्वर्तितो यायात्तामेवानंतरं सकृत् । षष्ठीतो निर्गतो द्विस्तां पंचमी त्रिष्वथ व्रजेत् ॥ ३७६ ॥ चतुर्थी च चतुर्वारान् प्रपद्येत ततश्युतः। तृतीयां पंचकृत्वोऽपि तस्या एव समागतः ॥ ३७७॥ द्वितीयायां च षट्कृत्वः सप्तकृत्वस्तथाऽसुमान् । प्रथमाया विनिर्यातः प्रथमायां प्रजायते ॥ ३७८॥ सप्तमीतो विनिर्यातः संज्ञितियक्त्वभाकू पुनः । संख्येयायुर्वृतो याति नरकं तनुमद्गणः ॥३७९॥ षष्ठीतस्तु विनिर्यातो लभते नैव संयमं । तं लभेतापि पंचम्या निर्वाणं न तु तद्भवे ॥ ३८० ॥ लभेतापि च निर्वाणं चतुर्थीनिःसृतः पुनः। निश्चयेनैव नैवांगी तीर्थकृत्त्वं प्रपद्यते ॥ ३८१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org