________________
हरिवंशपुराणं ।
६८
चतुर्थ सर्गः ।
त्रिगव्यूतिश्चतुर्भागसप्तयोजन मात्रकं । धर्मानिगोदजा जीवा खमुत्पत्य पतंत्यधः ॥३५६॥ गव्यूतिद्वितियं सार्धं सपंचदशयोजनं । वंशानिगोदजन्मानः खमुत्पत्य पतंत्यधः || ३५७|| एकत्रिंशत्तु गव्युत्या योजनानि नभस्तले । मेघानिगोदजा जीवाः खमुल्लंघ्य पतंत्यधः || ३५८॥ द्विषष्टियोजनान्यूर्ध्वं गव्यूतिद्वयमुद्गताः । निपतंत्युग्रदुःखार्त्तास्तेंऽजनाजनिगोदजाः ॥३५९|| पंचविंशतिसन्मिश्रशतयोजनमातुराः । खमुत्पत्य पतंत्येव पंचमीस्था निगोदजाः || ३६०॥ पंचाशता विमिश्रं तु योजनानां शतद्वयं । वियदुत्पत्य षष्ठीस्थनिगोदोत्थाः पतत्यधः ॥ ३६१ ॥ सप्तमीस्थनिगोदोत्थाः सपंचशतयोजनं । अध्वानमूर्ध्वमुत्पत्य पतंति वसुधातले ।। ३६२ ॥ असुरा आतृतीयांतं योधयंति परस्परं । प्रयुज्यंते स्वयं तेऽपि ज्ञात्वा वैरं पुरातनं ॥ ३६३॥ कुंतक्रकचशूलाद्यैर्नानाशस्त्रैस्तनूद्भवैः । खंड खंडं विधीयते पीडयंति परस्परं ।। ३६४ ॥ सूतकस्येव संघातः शरीरस्य प्रजायते । यावदायुःस्थितिस्तेषां न तावन्मरणं भवेत् ॥ ३६५ ॥ शारीरं मानसं दुःखमन्योऽन्योदीरितं खलु । सहते नारका नित्यं पूर्वपापविपाकतः ।। ३६६ ।। क्षारोष्णतीव्रसद्भावनदीवैतरणीजलात् । दुर्गंधा मृन्मयाहाराः दुःखं भुजंति दुःसहं || ३६७ ।। अक्ष्णोर्निमीलनं यावन्नास्ति सौख्यं च जातुचिद् । नरके पच्यमानानां नारकाणामहर्निशं ॥ ३६८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org