SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । चतुर्थः सर्गः । पृथिव्योराद्ययोर्युक्ता जीवाः कापोतलेश्यया । तृतीयायां तयैवोर्ध्वमधस्तानीललेश्यया ॥३४३॥ अधश्चोध्वं च संबद्धाश्चतुथ्यों नीललेश्यया । तयैवोपरि पंचम्यामधस्ते कृष्णलेश्यया ॥३४४॥ षष्ठ्यां च कृष्णयैवोर्ध्वमधः परमकृष्णया । सप्तम्यामु भयत्रामी क्लिष्टाः परमकृष्णया ॥३४५॥ स्पर्शेनोष्णेन बाध्यंते नारका भूचतुष्टये । पंचम्यामुष्णशीताभ्यां शीतेनैवांत्ययोर्भुवोः ॥३४६॥ आकारणोष्टिकाकुंभकुस्थलीमुद्गरोपमाः । मृदंगनाडिकाकारा निगोदाः पृथिवीत्रये ॥३४७॥ गोगजाश्वादिभस्त्राभाद्रोण्यब्जपुटसंनिभाः। ते चतुथ्यों च पंचम्यां नारकोत्पत्तिभूमयः ॥३४८॥ केदाराकृतयः केचित्झल्लरीमल्लकोपमाः । केचिन्मयरकाकारा निगोदास्तेऽत्ययोभुवोः ॥३४९।। एकद्वित्रिकगव्यूतियोजनव्याससंगताः । शतयोजनविस्तीणस्तेषत्कृष्टास्तु वर्णिताः ॥३५०॥ उच्छायो वस्तुतस्तेषां विस्तारः पंचताडितः। निगोदानां समस्तानामिति वस्तुविदो विदुः॥३५१।। सर्वेद्रकनिगोदास्ते त्रिद्वाराशा त्रिकोणकाः। द्विव्येकपंचसप्तात्मद्वारकोणास्ततः परे ॥३५२॥ संख्येयव्यासयुक्तानां निगोदानां निजांतरं । गव्यूतयः षडल्पं स्यादनल्पं द्वादशैव ताः ॥३५३॥ असंख्येयप्रमाणानामसंख्यं महदंतरं । योजनानां सहस्राणि सप्तैवात्यल्पमंतरं ॥३५४॥ क्रोशत्रयं सतुर्याशं योजनानां च सप्तकं । समुत्पतंति धर्मायां शेषास्तु द्विगुणोत्तरं ॥३५५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy