________________
हरिवंशपुराणं।
चतुर्थः सर्गः। धनूंषि सत्रिपंचाशद्धस्तौ चापि षडंगुली । षट् च सप्तमभागास्ते तमके परिकीर्तितः ॥३३०॥ अष्टापंचाशदुत्सेधो धनूंषि व्यंगुलानि च । त्रयः सप्तमभागाश्च पडेऽपि प्रकटस्थितः ॥३३१॥ द्विषष्टिस्तु धनूंषि द्वौ हस्तौ षडपडे मतः । उत्सेधः सुप्रसिद्धो यश्चतुर्थे नरके शती ॥३३२॥ तमोनामनि चोत्सेधः कोदंडाः पंचसप्ततिः । सप्ताशीतिरसौ दंडा द्वौ हस्तो भवति भ्रमे ॥३३३॥ वपुषो नारकीयस्य झषे शतधनूंषि सः। अंधे द्वादशमिश्राणि तानि हस्तद्वयं मतं ॥३३४॥ तमिश्रेऽपि च तान्येव पंचविंशतिदंडकैः । उत्सेधा वर्णितो योऽसौ पंचमे नरके बुधैः ॥३३५॥ षट्पष्टया शतकोदंडा द्वौ हस्तौ पोडशांगुली । उत्सेधो वर्णितः पूर्णो हिमनामनि चेंद्रके ॥३३६॥ द्विशत्यष्टौ च कोदंडा हस्तोऽष्टावंगुलान्यपि । उत्सेधः शास्त्रनेत्राद्यैर्वदलेऽपि विलोकितः।।३३७॥ शतद्वयं च पंचाशद्धनूंष्येव स भासितः । लल्लके नरके पष्ठे निष्ठिताथैये इष्यते ॥३३८॥ उत्सेधश्चाप्रतिष्ठाने पंचचापशतानि सः । निश्चितो निश्चितज्ञानः सप्तमे नरके च यः ॥३३९॥ सप्तसु प्रतिबोद्धव्यः प्रथितः प्रथमादिषु । अवधेविषयस्तासु पृथिवीषु यथाक्रमं ॥३४०॥ योजनं तु त्रयः क्रोशाः सार्धा कोशत्रयं तथा। साधौं तौ तवयं सार्धः क्रोशःक्रोशश्च निश्चितः।।३४१॥ कोशार्द्ध मृत्तिकागंधः प्रथमे पटले व्रजेत् । तदधोऽधः क्रोशस्या वर्द्धते पटलं प्रति ॥३४२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org