________________
हरिवंशपुराण।
चतुर्थः सर्गः। तप्ते सप्तदशोत्सेधो दंडा हस्तौ दशांगुली । द्वित्रिभागसमेतोऽसौ नरकाणां समीरितः ॥३१७॥ एकोनविंशतिर्दडास्तपितेऽसौ नवांगुली । त्रिभागश्च समादिष्टः स्पष्टज्ञानेष्टदृष्टिभिः ॥३१८ ॥ तपने विंशतिदंडास्त्रयो हस्तास्तथैव सः । अंगुलानि समुद्दिष्टः शिष्टैरष्टौ प्रकृष्टतः ॥३१९।। द्वाविंशतिधषि द्वौ हस्तायुक्तः पडंगुलैः । उत्सेधस्तापने व्यंशौ नारकांगसमुद्भवः ॥३२०॥ चतुर्विंशतिचापानि हस्तः पंचांगुलानि च । त्रिभागश्च निदाघेऽसावुत्सेधो बोधितो बुधैः ॥३२१॥ पड्विंशतिधनूंष्येष प्रोक्तः प्रोज्ज्वलितेंद्रके । अंगुलानि च चत्वारि ज्ञानप्रज्वलितात्मभिः।।३२२।। सप्तविंशतिचापानि त्रयो हस्ता स वर्णितः। आगमोज्ज्वलितप्रास्त्र्यंशावुज्ज्वलितेऽगुली ॥३२३॥ एकान्नत्रिंशदुत्सेधः कोदंडा हस्तयोर्द्वयं । अगुलं च त्रिभागश्च बोध्यः संज्वलिते बुधैः ॥३२४॥ एकत्रिंशत्तु कोदंडा हस्तश्चोत्सेध इष्यते । संप्रज्वलितसंज्ञे च तृतीये यः स भाष्यते ।।३२५।। पंचत्रिंशद्धनूंष्यारे द्वौ हस्ताबंगुलान्यपि । विंशतिः सप्तभागाश्च चत्वारः संप्रकीर्तितः ॥३२६।। चत्वारिंशत्तथा तारे दंडा सप्तदशांगुली । एकः सप्तमभागः स्यादुत्सेधो नारकाश्रयः ।।३२७॥ चत्वारिंशचतुर्भिश्च दंडा हस्तौ त्रयोदश । अंगुलानि मतो मारे सप्तभागैः स पंचभिः ॥३२८॥ धनूंष्येकोनपंचाशदुत्सेधः स दशांगुली । द्वौ च सप्तमभागौ तौ वर्चस्के वर्णितो बुधैः ॥३२९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org