________________
हरिवंशपुराण।
चतुर्थः सर्गः। धनुःसप्तकमुद्देशः सार्थमांगुलेन च । अवक्रांते बुधैरुक्तः सोऽगुलान्येकविंशतिः॥ ३०४ ॥ विक्रांते सप्त चापानि त्रयो हस्ताः षडंगुली । स एष विहितः प्राज्ञैरुत्सेधः प्रथमावनौ ॥३०५ ।। स्तरकेऽष्टौ धनूंषि द्वौ हस्तावंगुलयोद्वयोः । द्वावेकादशभागौ च नारकोत्सेध इष्यते ॥ ३०६ ।। स्तनके नवदंडास्तु द्वाविंशत्यंगुलानि च । उत्सेधो वर्णितो युक्तश्चतुरेकादशांशकैः ॥ ३०७ ॥ मनके नवदंडाश्च त्रयो हस्ताः सहांगुलैः । अष्टादशभिरुत्सेधः षड्भिरेकादशांशकैः ॥ ३०८ ॥ वनके दश दंडा द्वौ हस्ताबुत्सेध इष्यते । साष्टैकादशभागानि सोंगुलानि चतुर्दश ।। ३०९ ॥ घाटे त्वेकादशप्रा दंडा हस्ता दशांगुलैः । दशैकादशभागाश्च देहोत्सेधः प्रकीर्तितः ॥३१० ॥ संघाटे द्वादशोत्सेधो दंडाः सप्तांगुलान्यपि । तथैकादशभागाश्च नारकाणामुदाहृतः ॥ ३१६ ।। जिह्वाख्ये द्वादशैवोक्ता दंडा हस्तास्त्रयस्तथा । अंगुलानि च सत्रीणि त्रयश्चैकादशांशकाः ३१२॥ दंडा हस्तोगुलान्येषु जिबिकाख्ये त्रयोदश । एकः पंचोक्तभागैश्च त्रयोविंशतिरिष्यते ॥३१३ ॥ लोले चतुर्दशैवासौ दंडास्त्वेकोनविंशतिः । अंगुलानि विनिर्दिष्टा सप्तैकादशभागकैः ॥ ३१४ ॥ त्रयो हस्ता धनूंष्येष लोलुपे च चतुर्दश । नवैकादशभागश्च तथा पंचदशांगुली ॥ ३१५ ॥ दंडाः पंचदशैवासौ हस्तौ च स्तनलोलुपे । द्वादशांगुलमानं च द्वितीयायां च इष्यते ॥ ३१६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org