________________
६३
हरिवंशपुराणं।
चतुर्थः सर्गः। अवरा तु स्थितिः प्रोक्ता हिमे सप्तदशार्णवाः । पराऽपि द्वित्रिभागाभ्यामष्टादश पयोधयः।।२९१॥ वदेले स्थितिरेषेव जघन्या समुदीरिता । परा त्रिभागसंमिश्राः विंशतिस्तु पयोधयः ।। २९२॥ लल्लके तु जघन्ये यमजघन्या स्थितिः पुनः । षष्ठयां प्रोक्ता मुनिश्रेष्ठाविंशतिपयोधयः ॥२९३ ।। इयमेवाप्रतिष्ठाने जघन्या स्थितिरुच्यते । योत्कृष्टा सा हि सप्तम्यां त्रयस्त्रिंशत्पयोधयः ॥२९॥ नारकाणां तनूत्सेधो हस्ताः सीमंतके त्रयः। तरके तु धनुहस्तः सार्धान्यष्टांगुलान्यसो।।२९५।। रोरुके धनुरुत्सेधस्त्रयो हस्ताः शरीरिणां । अंगुलान्यपि तत्रैव भवेत् सप्तदशैव सः ॥२९६॥ भ्रांते द्वे धनुषी हस्तावंगुलं सार्द्धमप्यसौ । उद्धांते तु त्रयो दंडाः सोऽगुलानि दशोदितः॥२९७।। धनूंषि त्रीणि संभ्रांते द्वौ हस्तावंगुलान्यपि । अष्टादशैव सार्द्धानि नारकोत्तेध ईरितः॥ २९८ ।। कार्मुकाणि तु चत्वारि हस्तस्त्रीण्यंगुलानि च । असंभ्रांतेऽप्यसंभ्रांतैरुत्सेधः साधुवर्णितः ॥२९९।। चत्वारः खलु कोदंडास्त्रयो हस्तास्तथोदिताः। विभ्रांतेऽपि ह्यविभ्रातः साढेरेकादशांगुलैः॥३०॥ चापपंचकमुत्सेधः तथा हस्तश्च विंशतिः। अंगुलानि समुद्दिष्टस्त्रस्तनामनि चंद्रके ॥ ३०१ ॥ धनूंषि च षडुत्सेधस्त्रसिते त्रासितांगिनि । साांगुलचतुष्कं च च रैः प्रतिपादितः ॥ ३०२ ॥ वक्रांते धनुषां षट्कं सहस्तद्वितयं तथा । कथितं कथकैरुखैरंगुलानि त्रयोदश ॥ ३०३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org