________________
हरिवंशपुराणं ।
चतुर्थः सर्गः। सा संप्रज्वलिते हीना परा सागरसप्तकं । तृतीयनरके तेऽमी प्रसिद्धाः सप्त सागराः ॥ २७८ ॥ या संप्रज्वलिते दीर्घा इस्वाऽऽरे सा प्रकीर्तिता। दीर्घा सप्त समुद्रास्ते सप्तभागास्तथा त्रयः।।२७९।। ओर या परमा प्रोक्ता तारे सैवापरा स्थितिः । परा सप्त समुद्रास्ते षड्भिः सप्तभागकैः।।२८०॥ तारे या परमा प्रोक्ता सैव मारेऽवरा स्थितिः । सह सप्तमभागाभ्यां पराप्यष्टौ पयोधयः ॥२८१।। मारे तु या परा सैव वर्चस्के वर्णिताऽवरा । पंचसप्तमभागैस्तु पराष्ट जलराशयः ।। २८२ ॥ वर्चस्के परमा याऽसौ तमकेऽप्यवरा स्थितिः । परा सप्तमभागेन संयुक्ता नव सागराः ॥२८३।। परा तु तमके यासों जघन्या सा पडे मता | चतुर्भिः सप्तमै गैः पराऽपि नव सागराः।।२८४॥ पडे तु परमा याऽसौ हीना पडपडेप्यसौ । चतुर्थी सुप्रसिद्धास्ते परा तु दश सागराः ॥२८५॥ दशार्णवास्तमोनाम्नि जघन्या सा पडे मता। सह पंचमभागाभ्यामुत्कृष्टैकादशार्णवाः॥ २८६ ।। इयमेव भ्रमे हस्वा स्थितिः संप्रतिपादिता । चतुर्भिः पंचमै गैः परा द्वादशसागराः ॥२८७॥ एषैव हि झषे हीना स्थितिरुत्कर्षिणी पुनः । साकं पंचमभागेन चतुर्दशपयोधयः ।। २८८ ॥ इयमेवावरांऽभ्रे सा सत्यसंधैरुदीरिता । सत्रिपंचमभागास्तु परा पंचदशाब्धयः ॥ २८९ ॥ एव च तमिस्रेप जघन्या स्थितिरिष्यते । पंचम्यां सुप्रतीतास्ते परा सप्तदशाणेवाः॥२९०।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org