SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । ६१ चतुर्थः सर्गः । स्थितिरेषैव बोधव्या जिद्दाख्येऽपद्रकेश्वरा । त्रयस्त्वेकादशांशास्ते सागरौ च तथा परा ॥ २६५ ॥ असावेव समादिष्टा जिद्दिकाख्येंद्रकेश्वरा । पंचैकादशभागाश्च सागरौ च परा स्थितिः ॥ २६६ ॥ एषैवानंतर वेद्या लोलनामेंद्रकेश्वरा । सप्तैकादशभागाश्व सागरौ च परा तथा ॥ २६७॥ भवत्यनंतरैवैवा लोलुपेऽपींद्रकेश्वरा । नवैकादशभागाश्च सागरौ च परा तथा ।। २६८ ।। अवरैषा परापीष्टा स्तनलोलुपनामनि । सागरत्रयमेतेषु वंशायां सागरास्त्रयः ।। २६९ ।। सागरत्रयमेवासाववरा तप्तनामनि । चत्वारो नवभागाश्च परमा सागरास्त्रयः || २७० ॥ इयमेवाऽवरा वर्ण्या तपितेऽपींद्र के स्थितिः । तथाऽष्टौ नवभागाश्च परमा सागरास्त्रयः || २७१।। तपनेऽप्यवरैषैव नवा भागास्त्रयोऽपि तु । चत्वारश्च समादिष्टा परमा सागराः स्थितिः ।। २७२ ।। इयमेवोपगीता सा तपनेऽप्यवरा स्थितिः । सा सप्त नवभागास्तु चत्वारः सागराः परः ।। २७३ ।। निदाघेऽप्यवरैषैव स्थितिः समुपवर्णिता । परा तु नवभागाभ्यां सागराः पंच संचिताः ॥ २७४ ॥ अजघन्या निदाघे या सैव प्रज्वलितेऽन्यथा । षड्नवांशकसन्मिश्रा परा पंच पयोधयः ॥ २७५ ॥ परा प्रज्वलिते येयं सैव चाज्ज्वलितेऽपरा । तथा सनवभागास्ते पट्समुद्राः परा स्थितिः ॥ २७६ ॥ उत्कृष्टोज्ज्वलिते येयं सैव संज्वलितेश्वरा । सपंचनवभागास्ते परमा षट् पयोधयः || २७७ ॥ 1 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy