________________
६०
हरिवंशपुराणं ।
चतुर्थः सर्गः। एषा चैवापरा भ्रांते स्थितिः स्यात् समयोचरा । सागरस्य परो भागो दशमोऽत्र परा स्थितिः।। इयमेव जघन्या स्यादुद्धांत परमा पुनः । द्वावेव दशमौ भागाविति तत्त्वविदां मतं ॥२५३॥ संभ्रांते तु जघन्येयं दशभागास्त्रयः परा । अवराऽसावसंभ्रांते परा भागचतुष्टया ॥ २५४ ॥ अवराऽसौ च विभ्रांत परा सैकांशवर्द्धिता । त्रस्ते त्ववरा सा स्यात् षट् परा तु दशांशका ॥२५५॥ त्रसिते त्वपरा प्रोक्ता परा सप्त तदंशका । वक्रांते साऽपरा प्रोक्ता परा चाष्टौ दशांशकाः॥२५६॥ एवोक्ता विपश्चिद्भिरवक्रांतेऽवरा स्थितिः । नवैते दशमा भागास्तत्रैव परमा स्थितिः॥२५७।। इयमेव तु विक्रांते जघन्या परमा दश । दश भागा स्थितिः सैषा धर्मायां सागरोपमा॥२५८॥ सातिरेकाऽवरा सैव स्तरके सागरोपमा । सागरैकादशांशौ च सागरस्य परा स्थितिः ॥२५९।। स्थितिरेपैव विज्ञेया स्तनकेऽनंतरावरा । चतुरेकादशांशाचा सागरश्च परा तथा ॥ २६० ॥ अनंतरा विनिर्दिष्टा मुनिभिर्मनकेऽवरा । षडैकादशभागाश्च सागरशा तथा परा ॥ २६१ ॥ एपेवावादि विद्वद्भिर्वनके चावरा स्थितिः । अष्टकादशभागा सागरश्च परा तथा ॥ २६२ ।। सैषैवाद्या विघाटेऽपि पटुभिः प्रकटावरा । दशैकादशभागाचा सागर परा तथा ॥ २६३ ॥ इंद्रके त्वियमेव स्यात् संघाटेग्नंतराऽवरा । तत्रैकादशभागश्च सागरौ च परा स्थितिः ॥२६४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org