SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । चतुर्थः सर्गः । द्वाविंशतिधनुर्भिा नवभागद्वयेन च । प्रकीर्णकांतरं बोध्यं तस्यामेव प्रकीर्तितं ।। २३९ ॥ सहस्राणि तु चत्वारि तच्चत्वारि शतानि च । योजनानि समस्तानि नवतिचा नवोत्तरा ॥२४०॥ धनुःशतानि पंचैव पंचम्यामिंद्रकेष्विदं । भेदांतरप्रपंचरंतरं प्रतिपादितं ॥ २४१ ॥ सहस्राणि च चत्वारि श्रेण्यां तावच्छतानि च । अष्टानवति नन्वेतत् पट्सहस्रधनूंषि च ॥२४२।। तचत्वारि सहस्राणि शतान्यपि च सप्तभिः । नवतिः शेषके चापपंचषष्टिशतानि च ॥ २४३ ।। सहस्राणि च प षष्ठ्यां शतानि नव चाष्टभिः । नवतिः पंचपंचाशद्धनुःशतवतींद्रके ॥२४४॥ तावत्येव भवंत्यस्यां योजनानि तदंतरं । श्रेणीबद्धेषु वक्तव्यं द्विजसहस्रधनुर्युतं ॥ २४५ ॥ सहस्राणि पडेवास्यां नवतिश्च षडुत्तरा । शतानि नव सप्तत्या शेषे पंचधनुःशती ॥ २४६ ॥ ऊर्ध्वाधस्त्रिसहस्त्राणि नवतिश्च नवोत्तरा । शतानि नव गव्यूतिः सप्तम्यामिंद्रकांतरं ।।२४७॥ श्रेणीबद्धांतरं चास्यां योजनानि भवंति हि । गव्यूतेश्च त्रिभागेन तावत्येवेति निश्चयः ॥२४८॥ दशवर्षसहस्राणि नारकाणां लघुस्थितिः । सीमंतके विनिर्दिष्टा नवतिस्तु परा स्थितिः॥२४९॥ साधिका तु परे चासाववरा स्थितिरिष्यते । इंद्रके नारकाभिख्य लक्षास्तु नवतिः परा ॥२५०।। इयमेव जघन्या स्यात् रोरुके समयाधिका । पूर्वकोटचस्वसंख्यया परमा परिकीर्तिता ॥२५१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy