________________
हरिवंशपुराणं।
चतुर्थः सर्गः। क्रोशद्वादशभागाश्च तथैवैकादशापरे । इंद्रकाणामिद ज्ञेयमेकैकस्यांतरं बुधैः ॥ ॥ २२६ ॥ चतुःषष्टिशतान्येव नवतिश्च नवोत्तरा । श्रेणिगतांतरं क्रोशौ तथा पंचनवांशकाः ॥ २२७॥ नवतिनव चैतानि चतुःषष्टिशतानि तत् । क्रोगाः सप्तदशान्येषां क्रोशट्त्रिंशदंशकाः ॥२२८॥ इंद्रकाणां द्वितीयायां पृथिव्यां तु पृथुश्रुताः । तद्योजनशतान्याहुरेकान्नत्रिंशदंतरं ।। २२९ ।। नवभिश्चा नवत्या च योजनैः सहितानि तु । चत्वारिंशच्छतैर्युक्ता तथा सप्तधनुःशती ॥२३०॥ तावत्येव च जायंते योजनान्यन्ययाऽनया । श्रेणिबद्धस्थितानांच या पत्रिंशद्धनुः शती।।२३१॥ तावत्येव पुनस्तानि योजनानि परस्परं । प्रकीर्णकांतरं तस्यां तृतीयं तु धनुःशतं ॥ २३२ ॥ विनैकेन तु पंचादशदिंद्रकाणां शतान्यपि । द्वात्रिंशच तृतीयायां पंचत्रिंशद्धनुःशतैः ॥२३३॥ योजनानि हि तावंति द्विसहस्रधनूंषि च । श्रेणीगतांतरं तस्यां लब्धवर्णैः प्रवर्णितं ।। २३४ ॥ चत्वारिंशत्सहाष्टाभित्रिंशच शतानि वै । धषि पंचपंचाशच्छतान्येतत्प्रकीर्णके ।। २३५ ॥ पंचष्टिश्या पट्त्रिंशच्छतानींद्रकगोचरं । धनुःशतानि तद्वेद्यं चतुझं पंचसप्ततिः ॥ २३६ ।। योजनानि हि तावंति श्रेण्यां पंचनवांशकैः । धनूंषि पंचपंचाशत्तावत्येव शतानि तत् ।। २३७॥ चतुःषष्टिा पत्रिंशद् योजनानां शतानि तु । सप्तसप्ततिसंख्यानैस्तथा चापशतैरपि ॥२३८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org