________________
हरिवंशपुराणं ।
चतुर्थः सर्गः । लक्षाश्चतस्र उद्दिष्टास्तमिश्रे त्र्यं शकद्वयं । षट्षष्टिश्च सहस्राणि षट्षष्टिः षट्शती च सः ।।२१३॥ लक्षास्तिस्रो हिमस्यापि विस्तारः पंचसप्ततिः । सहस्राणि समादिष्टः शुद्ध केवलदृष्टिभिः || २१४ || लक्षद्वयं विभागश्च विस्तारो वर्दलस्य तु । त्र्यशीतिश्च सहस्राणि त्रयस्त्रिंशच्छतत्रयं ॥ २१५ ॥ लल्लकस्य तु लक्षैका षट्षष्टिः शट्शती तथा । सहस्राण्ये कनवतिर्विस्तारः त्र्यंशकद्वयं ।। २१६ ॥ केवलैव तु लक्षैका योजनानां प्रकीर्तितः । अप्रतिष्ठानविस्तारो वस्तुविस्तरवेदिभिः ॥ २१७ ॥ इंद्रकेषु च बाहुल्यं घर्मायां क्रोश एव च । श्रेणिध्वेषु स सत्र्यंशो द्वौ सख्यंशौ प्रकीर्णके ॥ २९८ ॥ क्रोशः सार्धस्तु वंशायामिंद्रकेषु तदीरितं । श्रेणीगतेषु तु क्रोशो त्रयः सार्धाः प्रकीर्णके ॥ २१९ ॥ मेघायामिंद्रकेषूक्तं बाहुल्यं क्रोशयोर्द्वयं । स द्वित्र्यंशं तु तच्छ्रेण्यां संयुक्तं तत्प्रकीर्णके ॥ २२० ॥ सार्धं द्वाविंद्रकेष्वेतौ चतुर्थ्यां त्र्यंशकस्त्रयः । श्रेण्यां प्रकीर्णकध्वेते पद्भागैः पंच पंचभिः॥ २२१ ।। इंद्रकेषु त्रयः क्रोशाचत्वारः श्रेण्युपाश्रयः । सप्त प्रकीर्णकेष्वैते पंचम्यामुपवर्णिताः ॥ २२२ ॥ सार्थाः षष्ठ्यां त्रयः क्रोशा इंद्र के श्रेण्युपाश्रिताः। चत्वारस्त्र्यं शकावष्टौ ते भागाः प्रकीर्णके२२३ सप्तम्यामप्रतिष्ठाने चत्वारस्ते समुच्छ्रयाः । श्रेणिबद्धेषु पंचैव सत्रिभागाः प्रकीर्तिताः || २२४ ।। योजनानां चतुःषष्टिः शतानि प्रथमक्षितौ । नवतिर्नवसंयुक्ता क्रोशयोश्च द्वयं तथा ।। २२५ ।।
Jain Education International
५७
For Private & Personal Use Only
www.jainelibrary.org