________________
३. युगपदनेकान्त-सिद्धिः
तद्वषे (द्भदे)ऽप्येकसन्तानात्तैवासि(ा सिद्धयेत्तयोरपि । कार्यकारणमात्रत्वं तन्निमित्तं यतस्तयोः ॥ ४०॥ तत्सिद्धौ मुक्तकार्यत्वात्संसृतेमुक्तिरस्थिरा । तदसिद्धौ च सन्ताने कथञ्चिद्भद-नाशिता ।। ४१ ।। उपादानादुपादेये तद्भदादिः स दृश्यते।। अहमेव युवा जातो बाल्यं त्यक्ते( क्त्वे )ति बोधतः ।। ४२ ।। प्रत्यभिज्ञाख्यबोधोऽयं स बोधो यदि सर्वदा। निक्षिप्तचीवरादायी तस्करोऽसत्यवागपि ।। ४३ ।। ततः कथञ्चिन्नाशित्वे कत्रो लब्धं फलं भवेत् ।
तन्नाशो नेष्यते तस्माद्धर्मोऽकार्योऽस्तु सौगतैः ।। ४४ ।। इति श्रीमद्वादीभसिंहसूरि-विरचितायां स्याद्वादसिद्धौ बौद्धयादिनं प्रति स्याद्वादानभ्युपगमे धर्मकर्तुः फलभोक्तत्वाभाव-सिद्धिः ।।२।।
-
-
-
[ ३. युगपदनेकान्त-सिद्धिः ] युगपत्क्रमतो वस्तु वास्तव्यानेकधर्मकम् । सन्ताना(न)व्यवहारादेरन्यथानुपपत्तितः ।।१।। कार्यकारणरूपं [तत् ] चित्तमेकं हि सन्ततौ। नो चेत्पूर्वापरापेक्षं तद्र पं तत्र सा कुतः ? ॥२॥ कार्यादिधर्मभेदः स्याद्वयावृत्येति न युक्तिमत् । तस्याभावादभिन्नत्वान्न नानात्वसम्भवः ॥३॥ अयुक्त्यतिप्रसङ्गाभ्यां सर्वशून्यत्वसम्भवात् । धर्मभेदानुपायश्च नापोहान् (द्) धर्मभेदधीः ॥ ४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org