________________
स्याद्वाद-सिद्धौ
कचि[द्वासना-सद्भावे क] चित्तज्ज्ञानसम्भवः । तत्सम्भवे कचिद्भावो वासनाया इति स्फुटम् ॥२८॥ वासनांता (नातो) न तज्ज्ञानं सन्तानादिति चेञ्च न । तज्ज्ञाने हि कचिज्जाते सन्तानस्तत्र तत्त्वचित् ॥२६॥ तज्ज्ञानस्य क्वचिद् दृष्टे नान्योन्याश्रयदूषणम् । इति चेद् दृष्टमिष्टं [हि चान्योन्याश्रयदूषणम् ॥३०।। बीजाङ्क रादिवत्सः स्यात्प्रबन्धोऽनादिरित्यसत्। स्यादभेदोऽत्र चास्तीति न दृष्टान्तोऽन्यवादिनाम् ।।३।। काय-कारण-मात्रेण सन्तानस्य प्रकल्पनम् । जनकात्मजयोश्च स्याद्बुद्ध-संसारिणोरपि ॥३२॥ काय कारणरूपत्वमस्त्येव हि तयोरपि । देहिनां बुद्धवेदित्वात्ते कार्य स हि कारणम् ॥३३॥ विषयोऽकारणं नेति बौद्धानां ह्याभिवाञ्छितः। सादृश्यादेरसत्त्वं चेद्दत्तमत्र सदुत्तरम् ।।३४॥ यथैकार्थक्रिया-हेतुः सन्तानस्तौ तथा न चेत् । तयोः सन्तानतायां किं तत्क्रियाऽत्र न सम्भवेत् ।।३।। कार्य-कारण-रूपत्वेऽप्यनयोः सन्ततिर्न चेत् । सन्तानाभाव एव स्यानिमित्तान्तर-हानितः ।।३६।। सन्तानत्व-निमित्तं हि कार्य-कारण-मात्रकम् । तस्मिन्नपि न तत्त्वं चेत्तत्किमन्यत्र सम्भवेत् ॥३७॥ स्याद्धि लक्षणयुक्तेऽपि बाधे लक्षणदूषणम् । तन्न स्यात्सन्ततिः कापि भेद-नाशित्व-साम्यतः ॥३८॥ तस्यां चेत्तदसाम्यं स्याद्भवेत्स्यानाशि भिन्नता। न हि स्वस्य स्वतोऽसाम्यं साम्यासाम्यं हि भेदिनोः॥३६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org