________________
२. फलभोक्तृत्वाभाव-सिद्धिः
मुक्तान्ययो: फलाभेदे विनाशे चा विशेषतः । विशेषश्चेत्कथंचित्तौ देहिनोऽन्यस्य सर्वथा ।।१६।। विशेषः स्यादुपादानोपादेय[ः खलु जा]तु न । मुक्त-संसारिणोस्तस्मान्नोक्तं दूषणमित्यसत् ॥१७॥ स विशेषो यतः का लब्धं स्यात्फलमीदृशम् । विशेषस्थायिता सा तु नेष्टाऽन्यैः किं विशेषकैः ।।१८।। किञ्च न स्यादुपादानमथोऽन्यन्मेति सर्वथा । क्षणानां भेद-नाशित्वसाम्या त(त्त)त्सन्ततश्च नः (न)॥१६॥ [क्षणानामेकचित्तानां] स्यात्सादृश्यं देश-कालजम् । नैरन्तयं तथासत्तोपलम्भश्चैककार्थता ॥२०॥ इति चेनिरंशवादेन सादृश्यमथवाऽस्ति चेत् । जनकात्मजयोश्च स्याज्ञानत्वेनापि साम्यतः ॥२१॥ देशकालो(लौ) न बौद्धानां नैरन्तयं ततः कुतः । तथासत्तोपलम्भस्तन्नै [रन्तयं तु न भवेत् ॥२२॥ न च कल्पितदेशादिनैरन्तयं तु कार्यकृत् । अथेष्ट कार्यकृत्तच्च भवेद्वास्तवमेव तत् ॥२३॥ न ह्यवास्तवतः कार्य कल्पिताग्नेश्च दाहवत् । न हि मिथ्याऽहि-दंशात्सा मृतिः किन्तु महाभयात् ।।२४।। एककार्यविधायित्वं नैरन्तयं च न भवेत् । [ ]त्युद्धरणादौ स्यादेकसन्तानता न किम् ॥२॥ यत्र सोऽहमिति ज्ञानमुपादानान्यरूपकः । सन्तानोऽऽत्रैव चेदस्तु तज्ज्ञानं च क्वचित्कुतः ।।२६।। एकत्ववासनातश्चेत्सा हि तज्ज्ञानसम्भवात् । तज्ज्ञानाविषये न स्यादित्यन्योन्यसमाश्रयः ॥२७॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org