________________
स्याद्वाद-सिद्धौ
नाध्यक्षमिह युक्तिः स्याद्वस्तुन्येवाऽस्य' सम्भवात् । अवस्तुन्यप्यपोहे चेत्कल्पनात्वान्न तत्प्रमा॥५॥ विकल्पापोहसामान्यगृहीतावासनोद्भवः। वस्तुन्यभेदसादृश्यकल्पनात्मेति पोषणात ॥६॥ युक्तिश्चेदनुमानो (माऽन्यो)ऽन्यसंश्रयः सा हि सिद्ध्यति । अपोहसिद्धसाध्यादिधर्मभेदं तयैव सः ॥ ७ ॥ विकल्पो नाऽत्र युक्तिः स्याबाह्य सत्येव न ह्ययम् । वर्तते यदि वर्तेत किं न प्रत्ययवत्प्रमा ।।८।। बाह्यत्व-विद्यमानत्वव्यतिरिक्तान्वितत्वतः । व्यतिरिक्तेऽपि तद्र,पविदेव हि विकल्पधीः ॥ ६ ॥ तया सिद्धादपोहाच्च धर्मभेदो न वस्तुषु । तस्य वस्तुष्वसद्भावात्कल्पनारोपितात्मनः ।। १० ।। एकत्वाध्यवसायाच्चेदस्तु वस्तुष सम्भवः । नैकत्वस्याऽप्यसद्भावात्तेष्वारोपितरूपिणः ॥ ११ ॥ तस्याऽप्येकत्व-निर्णीतेरन्यतस्तत्र सम्भवे । अनवस्था ततो युक्तिरपोहेन विकल्पधीः ॥ १२ ॥ किञ्चैकत्वसमारोपाद्धर्मभेदेऽपि वास्तवे । किन्नारोपितवह्नित्वादाहो माणवकादपि ॥ १३ ॥ किञ्च प्रत्यक्षमन्यद्वा नैकत्वाध्यवसायकृत् । सत्येतरार्थयोवृत्तिः प्रत्यक्षादेने हीष्यते ।। १४ ।। प्रत्यक्षं खलु सत्ये स्यादसत्येऽर्थेऽनुमादिकम् । न चैकार्थविदा शक्यं द्विष्ठमेकत्वकल्पनम् ।। १५ ।।
१ प्रत्यत्तस्य।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org