________________
३. युगपदनेकान्त-सिद्धिः
अपोहः कल्पनात्माऽयं न भवेदपि वस्तुष । भवेद्वस्तुगतापोहो वस्तुसाङ्कर्यमन्यथा ॥ १६ ॥ ततोऽयं धर्मभेदश्चेद्वस्तु-तभेद-विद्विषाम् । तदपोहेऽप्यवस्तुत्वमेवं चातिप्रसञ्जनम् ।। १७ ।। खण्डादाविव चान्यत्र गुल्मादावपि सम्भवेत् । फर्काधपोह एवं स्यात्तच्च गोव्यपदेशभाक् ॥ १८ ।। खण्डादावपि तेनैव गोशब्दस्य प्रवर्तनात् । एवं गामानयेत्युक्तौ गुल्मादेरपि तद्भवेत् ॥ १६ ।। अगोनिवृत्तिौरेवं तत्सङ्केतकृतस्ततः । गुल्मादेरप्यगोत्त्वेन न गोत्वमिति चेदसत् ।।२०।। अगोत्वं खलु गुल्मादेः खण्डादौ गोत्व-सिद्धितः । सा च गुल्माद्यगोत्वे स्यादित्यन्योन्यसमाश्रयात् ।। २१ ।। वाह-दोहादिकार्यस्य खण्डादावेव सम्भवात् । तत्र तद्वयपदेशः स्थानान्यत्रेति न युक्तिमत् ।। २२ ।। तत्कार्यस्यापि तत्रैव गुल्मादावपि सम्भवेत् । तदपोहकृतं कार्य तस्मिन् सति कुतः क्वचित् ।। २३ ।। शक्तिसाम्यं हि खण्डादौ तत्तत्कार्य मिहैव चेत् । गोत्वं चात्र त[दापि स्यादपोह इति सुस्थितम् ॥ २४ ।। तदपोहेऽपि गुल्मादौ तत्कार्यानुपलम्भतः । खण्डादिसहशत्वेन गुल्मादेश्चाप्रतीतितः ॥ २५ ।। किञ्चैकत्वसमारोपः पूर्वापरघटक्षणे । सादृश्यादेव बौद्धानां तच्चापोहस्तथा सति ।। २६ ।। कपालघटयोश्च स्यात्सादृश्य[मविशेषतः] । घटाद्यपोहस्तद्धेतुः घट-वर्धितयोरपि ॥ २७ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org