________________
स्याद्वाद-सिद्धौ नापोहमानं तद्धेतुस्तद्विशेषः स नेह चेत् । किमवस्तुन्यपोहे स्याद्विशेषो वस्तुसम्भवः ।। २८ ।। तत्तयोरपि सादृश्यं भवत्येव ततो भवेत् । तत्रैकमिति धीर्यद्वत्पूर्वापर वटंक्षणे ॥ २६ ॥ एकार्थक.................................."रयम । नास्त्येकत्वसमारोप इत्युक्तिः प्रानिरूपिता ।। ३० ।। किञ्च कर्काद्यपोहश्चेदसमः खण्ड-मुण्डयोः । समानप्रत्ययो नास्मात्समश्चेत्स्वमतच्युतिः ।।३१।। ततोऽसङ्करभावेन वस्तुनः प्रतिपत्तये । तिर्यगूर्ध्वगसामान्यात् [समानप्रत्ययो भवेत् ] ।। ३२ ।। व्यावृत्त्यैकस्वभावत्वे सा स्वतोऽपीति शून्यता। स्वस्वरूपादि यन्नो चेन्न भवेत्तत्स्वभावता ।।३३।। . व्यावृत्ति(त्ती)नां स्वतो भेदे भवेत्तासां च वस्तुता। न ह्यवस्तुनि नीरूपे स्वस्वरूपेण भिन्नता ॥३४।। ततो नानात्मकं वस्तु व्यावा त(त्त ?)दभिदेति चेत् ।
..............."नित्यादेः स्यात्ततोऽभिदा ।। ३५ ।। नित्यादेः कल्पितत्वं चेत्स्यादन्योन्यसमाश्रयः । नित्यादौ सत्यनित्यादिः तस्मिन्नित्यादिरित्ययम् ।।३।। बुद्धौ भेदावभासेन नित्यादेश्चेद्भिदा तथा । अन्यत्राऽपीति तद्भेदो न स्याद्वयावत(य)भेदतः ।। ३७ ।। व्यावर्ता(या)त्तद्भिदा [भेदश्चिदचिद्वस्तुव्यवस्थितिः । अचिदेव हि चिच्च स्याद्वयावृत्तेश्चेतनान्तरात् ।। ३८ ।। अचिदन्या चिदित्येवमादौ सच्चेतितं ततः । चिदन्तरं च चिच्चेत्स्यादत्राऽप्यन्योन्यसंश्रयः ।। ३६ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org