________________
स्याद्वाद-सिद्धौ
आत्मदृष्टानुकल्ये..................... चेत्परवानयम् । स्यादज्ञो वाऽन्यथा ज्ञात्वा स्व-बाधान्को विधित्सति ॥ ६ ॥ ततः सर्वज्ञ एव स्याज्जगत्कर्तेति बुद्धितः । तत्कर्तृ साधनायोक्त मान(नं)किञ्चिज्ञसाधनम् ।। १० ।। तच्चेदं स्यान्महीध्रादि बुद्धिमद्धेतुकं, यथा । कुम्भाद्यचिदुपादानात्कार्यत्वाद्वा भ[वे]रि(दि)ति ॥ ११ ॥ किञ्चिज्ञश्च भवेन्नैव जगत्कर्ताऽस्मदादिवत् । ततोऽयं कर्तृ वादी स्यात्स्ववधाय कृतोद्यमः ।। १२ ।। स्व-परद्रोहिदैत्यानां सृष्टयभ्युपगमाननु । कर्तुः किञ्चिज्ञता सिद्धा तत्कि नाऽयं सुबो(बा)धकः ।। १३ ॥ दैत्यस्यादृष्टतः सृष्टौ परवानज्ञ एव वा। दैत्याऽदृष्ट-द्वयोः सृष्टौ मिथो स्याद्वयभिचारिता ॥ १४ ॥ अतत्कार्यसुरादौ च कार्यत्वादेर्विलोकनात् । अदृष्टं स्यादपूर्वादि चिदुपादानमित्यसत् ॥ १५ ॥ अदृष्टं चाचिदुत्पन्नं मोहकृत्वात्पु(त्सु)रादिवत् । मोहः सुरादितो दृष्टो ह्यदृष्टश्च तदत्यये ॥१६॥ ततोऽचिदाऽत्र दृष्टयमन्वय-व्यतिरेकता। मोहस्येत्यचिदेवेदं दृष्ट मोहकृतेरिति ।। १७ ॥ तया' कारण-कार्यत्वं धूम-वह्नयादिषूच्यते । अनित्यत्वाददृष्टस्य कार्यत्वमविवादतः ॥ १८ ॥ हेतु-द्वयं च दैत्याङ्ग ततः स्याद्वयभिचारिता। आत्मस्वाकाश-कालादेरेव यस्मादकार्यता ॥ १६ ॥
१ अन्वयव्यतिरेकतया, 'अन्वयभ्यतिरेकसमधिगम्यो हि कार्य कारणभाव इत्यर्थः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org