________________
८. श्रहंत्सर्वज्ञ-सिद्धि:
तद्धेतोर्व्यभिचारित्वात्तत्सृष्टः स्यादसिद्धता । नो चेत्तद्वयभिचारित्वं दैत्य-सृष्ट्यु क्तदूषणम् ॥ २० ॥ तस्मादुभयथाऽपि स्याज्जगत्कतु रसिद्धता । प्राक्प्रपञ्चित दोषाञ्च नेश्वरोऽयं परोदितः ।। २१ ।।
किञ्चिज्ञ एव सिद्धोऽपि दैत्य सृष्टिमपीच्छताम् । न हि स्वायार्ति-कृत्वं स्याद्विरागे विश्व-वेदिनि ।। २२ ।। इति जगत्कर्तु 'रभाव-सिद्धिः ॥ ७ ॥ [ अर्हत्सर्वज्ञ-सिद्धिः ]
ततो भवेदन्नेव सोपायोऽपि सर्ववित् । अन्यथानुपपन्नत्वादितीयमनुमा स्थिता ॥ १ ॥ विवक्षितः स किञ्चिज्ञो मर्त्यो वक्तृत्वभावतः । अस्मदादिवदित्यादेः सर्वज्ञो [नेत्य ] सम्मतम् ॥ २ ॥ न हि सर्वज्ञ वक्तृत्वविरोधः कश्चिदीक्ष्यते । सहानवस्थितिर्न स्यात्सहावस्थिति-दर्शनात् ॥ ३ ॥ ज्ञानोत्कर्षस्तु सार्वज्ञयं तदुत्कर्षो हि वक्तरि । जैमिन्यादाव भोष्टस्तद्विरोधोऽन्योऽपि नो भवेत् ॥ ४ ॥ अन्योन्यपरिहारो हि विरोधोऽन्यः स किं भवेत् । सहाव[स्थित ] योयँ स्मात्स तु तत्तद्भावयोः ॥ ५ ॥ किञ्च स्याद्वकृतोत्कर्षो विज्ञानोत्कर्षकारणे । वाग्मिताकारणत्वं हि जैमिनौ तस्य सम्मतम् ॥ ६ ॥ किञ्चिज्ञ एव तत्रापि वक्तृत्वं दृष्टमित्यसत् । विरोधो ह्यल्पयोस्तत्स्यात्प्रकाश-तमसोरिव ॥ ७ ॥
१ तत् श्रल्पः ।
Jain Education International
For Private & Personal Use Only
२६
www.jainelibrary.org