________________
स्याद्वाद-सिद्धी
देहस्यानादिता न स्यादेतस्यां च प्रमाऽन्ययात् । सोपायो यदि वक्ता स्यादयनेवाऽस्तु सर्ववित् ॥ १२ ॥ निरुपायोऽस्ति सोपायाद् द्वेधाद्वा तस्य सिद्धितः । इत्यस[ त्तस्य दुष्टात्वान् ] नित्यैकान्तवदप्रमा ।। १३ ।। नित्यैकान्तस्य दुष्टत्वं प्रागेव च निरूपितम् ।। एक शास्त्रं क्वचिन्मानं क्वचिन्नेत्यनिबन्धनम् ॥ १४ ।। निरुपायो न वक्ता चेत्सोपायो नानुपायतः । अागमोक्त उपायस्य(श्चेत् )नाऽऽगमो वक्तृ-हानि च (नितः)।१५॥ सोपायानां तदीशों हि नागमस्योपदेशकः । निरुपायो न वैयर्थ्यात्प्रमा-हानेश्च साधनात् ।। १६ ।। किञ्च वेद-प्रमाणं न विरुद्धार्थावबोधनात् । एकान्ताभेद-भेदौ हि तत्रोक्तौ सर्व-वस्तुनः ॥ १७ ।। तथा सर्वविदस्तीति स नास्तीति च चर्चितम् । हिरण्यगर्भः सर्वज्ञ इत्यादे. [दवाक्यत:] ॥ १८ ॥ नियोग-भावनारूपं भिन्नमर्थद्वयं तथा । भट्टःप्रभाकराभ्यां हि वेदार्थत्वेन निश्चितम् ।। १६ ।। अर्थवादत्वमेकस्य तद्वाक्यस्येति चेदिदम् । कुतो ज्ञातं न वेदात्स्यात्सवोर्थ-प्रतिपादनात् ।।२०।। सव्याख्यानां न(तान्न) वेदाच नियतार्थ-विनिश्चयः । [तद्वयाख्यानस्य बाहुल्याद्भिन्नार्थ-प्रतिवा(पा)दिनः ॥ २१ ॥ ततः प्रमाण-वैकल्याददेहो देहवानपि । निरुपायो न सर्वज्ञः सोपायोऽप्युक्तदूषणः ॥ २२ ॥
इति नित्यैकान्तप्रमाणे सर्वज्ञाभाव सिद्धिः ॥६॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org