________________
६. सवैज्ञाभाव-सिद्धिः
M
[६. सर्वज्ञाभाव-सिद्धिः ] तत्प्रणेताऽप्ययुक्तार्थ-वक्तृत्वान्नैव सर्ववित् । सरागश्च ततो मुक्तयै नान्यैः सेव्योऽस्मदादिवत् ॥१॥ दारादि-हारि-वैरी च सृष्टो येनाविचारतः । सोऽयमन्यात्कथं रक्षेत्पततोऽन्यान् जनान् च स्वं ॥२॥
अविचारोऽपि नैव स्यात्स्वान्योपद्रव-कृद्विदाम् । न चोपद्रव-हीनोऽयमीशः कोपादि-दर्शनात् ।।३।। सर्वज्ञो वीतरागश्च कश्चिदन्यो यदीष्यते। पूज्यः स एव नैवाऽन्यो रत्नविन्न हि काचभाक् ॥ ४ ॥ नाऽस्याऽपि निरुपायत्त्वमवक्तृत्वाददेहिनः । वक्तृत्वे वा सदा तत्स्यात् [तन्नियामकस्यात्य]यात् ॥ ५॥ तत्स्वभावोऽन्यसम्बद्धो न स्यात्प्रागेव दूषणात् । परिणाम्येव सोऽयं चेत्स(स्या)द्वादस्यैव सुस्थितिः ।।६।। ततः कूटस्थ-नित्यत्वे वक्तता नाऽस्य सा यदि । तन्न स्यादिति दौर्घट्य नित्यैकान्त-प्रघादिनाम् ।।७।। परिणाम्यनुपायस्याऽप्यदेहस्य न वक्त ता] । [नित्यैकान्ते प्रमा-हानेः प्रत्यक्षादेरसम्भवात् ।।८।। तदागमोऽस्य वक्तृत्वे न प्रमाऽन्योन्यसंश्रयात् । तदागम-प्रमात्वेऽस्य व कृताऽस्यां हि तद्भवेत् ।। ६ ॥ देहारम्भोऽप्यदेहस्य वक्तत्ववदयुक्तिमान् । देहान्तरेण देहस्य यद्यारम्भोऽनवस्थितिः ॥ १० ॥ [अ] नादिस्तत्र बन्धश्चेत्त्यक्तोपात्त-शरीरता । अस्मदादिवदेवाऽस्य जातु नैवाऽशरीरता ॥ ११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org