________________
स्याद्वाद-सिद्धौ बुद्धयाद्याधारता मुक्तेऽप्यात्मव्यापित्वतः समा । ततो बुद्धयादिसम्बन्धः स्यात्तस्याऽप्यविशेषतः ॥ २३ ॥ अमुक्तप्रभवत्वं स्याद्विशेषोऽत्रेति चेदसत् । मुक्त-प्रभवता किं न बुद्ध्यादेरविशेषतः ।। २४ ।। बुद्ध्याद्या(देः) कारकत्वं हि मुक्ताऽमुक्तात्मनोः समम् । अन्यथा प्रागकुर्वत्वकुर्वत्वां (तां) नित्यता-क्षयात् ॥ २५ ।। अमुक्त-समवेतत्वात्स्यात्तत्रभवेत्यसत् । तस्य सत्समवेतत्वे सा स्यात्तस्यां हि तद्भवेत् ॥ २६ ।। अमुक्तात्मन्यदृष्टादेः सत्त्वाद्बुद्ध्यादिरत्र चेत् । मुक्तेऽपि [स्याददृष्टादि]सम्बन्धस्याविशेषतः ॥२७ ।। संयोगोऽन्योपि सम्बन्धो ह्यदृष्टाद्य स्तयोः समः । समः स्वस्वामिसम्बन्धमात्रं चानुपकारतः ।। २८ ।। उपकारोऽपि भिन्नश्चेत्सम्बन्धोऽन्येन न स्थितिः । उपकारान्तराक्षेपादभेदे नाऽऽत्म-नित्यता ॥ २६ ।। मुक्तस्य तु न योग्य त्वमभिन्ने] करणे यदि । तन्नाशात्तदनित्यत्वमभेदाद्भ ददूषणात् ॥३०॥ तस्मादतिप्रसङ्गस्य(स्या)परिहारः प्रागुदीरितः ।
आत्म-बुद्ध्योरभेदादिविधिः स्यात्समवायतः ॥ ३१ ॥ तदभ्युपगमे तु स्यात्प्रागुक्तं दूषणं ततः । धर्मकर्तुः फलाभावो नित्या(त्यैकान्त)वा"क्तितः(प्रवादिनः)।३२
. इति नित्यवादिनं प्रति धर्मकर्तु___ भॊक्तत्वाभाव-सिद्धिः ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org