________________
५. भोक्तृत्वाभाव-सिद्धिः
संयोगाख्ये(ख्यो) न सम्बन्धो द्रव्ययोः खल्वयं मतः।। न हि द्रव्यं वनं वृक्ष एव द्रव्यं हि] तत्त्वतः ।।११।। इहेदंबुद्धिहेतोस्तदेतेन व्यभिचारतः । नान्यसम्बन्धसाधित्वं तद्धेतोयः किमृच्छति ।। १२ ।। ततो बुद्धयादिसम्बन्धे समवायान्नि(ये निराकृते । बुद्धयादेर्भिन्न एवाऽऽत्मा भवेत्तादात्म्य-विद्विषाम् ।। १३ ।। एवं सति जडाऽऽत्माऽयं धर्मकर्ता कथं खलु। [क्षणिकैकान्तवत्तस्मान्नित्यैकान्तोऽपि निष्फलम् ।। १४।। किश्चात्म-बुद्धयभेदश्च(दञ्च)भेद-प्रध्वंसमेव वा। समवायोऽपि कुर्वीत नाऽन्यद्गत्यन्तरात्ययात् ।। १५ ।। पूर्वपक्षेऽप्यनित्यत्वमात्मनो बुद्धिवद्भवेत् । नित्यत्वं वाऽऽत्मवबुद्धरभेदस्याविशेषतः ॥ १६ ॥ पक्षान्तरे......................................."भेदन शतः । भेदनाशे स्वतन्त्रत्वमात्म-बुद्धयोर्घटादिवत् ।। १७ ।। भेदः प्राक् च तयोर्नो चेन्नाभेदोऽप्युक्तदूषणात् । भेदाभेदस्तु नेष्टस्तत्समवायेन किं फलम् ॥ १८ ॥ भेदोऽत्राभाव एव स्यादितरेतरसञ्जकः । त[बुद्धयादेः स्वतन्त्रत्वं] न स्यादात्मन इत्यसत् ॥१।। तथाप्यभेदतः प्रोक्त दोषाद्गत्यन्तरात्ययात् । पृथक्त्वाख्यगुणाभेदे भेद एव घटादिवत् ॥२०॥ स्यात्पृथक्त्वगुणाभेदोऽभेदश्च समवायतः । इति चेत्सङ्कटापत्तिः कथञ्चिद्वाद-विद्विषाम् ।। २१ ।। इहेदं [हि बुद्ध्युत्पादमा]त्रं तत्फलमित्यसत् । अभेदादिविधिों चेत्सम्बन्धादिप्रसङ्गतः ॥ २२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org