________________
२२
स्याद्वाद-सिद्धौ
wwwanm
[ ५. भोक्तृत्वाभाव-सिद्धिः] [नित्यैकान्तो न योगयोऽयं कत्तुर्भोक्तृत्वहानितः । कर्तृत्वे सत्यभोक्तृत्वादस्मिन् कर्तृत्व-हानितः ॥१॥ कर्तृत्वमपहायैव भोक्तृत्वे स्यादनित्यता। कर्तृत्वादेरभिन्नत्वाद्भिन्नत्वे नात्मनो हि तत् ।। २ ।। कर्तृत्वादेश्च बुद्ध्यादेरिव सम्बन्ध आत्मना। समवायस्ततस्तस्य स्यादात्मीयत्वं चेत्य] सत् ।।३।। असिद्धेः समवायस्य प्रत्यक्षादिप्रमाणतः। न ह्यास्याध्यक्षवेद्यत्वं विवादस्यैव दर्शनात् ॥४॥ निर्णयैकत्वरूपं हि प्रत्यक्ष न्यायवेदिनाम् । निर्णतेऽपि विवादश्चेत् गुण्यादावपि किं न सः ।। ५ ।। विवादो यदि तत्राऽपि विभ्रमैकान्तसं[भवात् । [चेत्तस्या निर्णयात्मत्वं न च ज्ञानस्य सम्मतम् ॥६॥ न चानिीतसिद्धत्वं' ज्ञानाद्वैतादिवद्भवेत् । नागमाञ्चास्यः सिद्धत्वं तत्प्रामाण्ये विवादतः ॥ ७ ॥ इह शाखासु वृक्षोऽयमिति सम्बन्धपूर्विका। बुद्धिरिहेदबुद्धित्वात्कुण्डे दधीति बुद्धिवत् ॥८॥ इत्य[सद्वन-चूतादि-बुद्धि]तो व्यभिचारतः । वने चूत इहेत्यादौ सम्बन्धोऽन्यो हि. नेष्यते ॥ ६ ॥ समवायाख्यसम्बन्धो न ह्यस्ति वन-चूतयोः । गुण:(ण)गुण्यादिवत्तत्र न ह्यस्त्ययुतसिद्धिता ॥१०॥
१ समवायस्य। २ समवायस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org