________________
४. क्रमानेकान्त-सिद्धिः
हेतु प्रयोग- काले तु तद्विशिष्टस्य धर्मिणः । किञ्च पक्षादिधर्मत्वेऽप्यन्तर्व्याप्तेरभावतः ॥ ८२ ॥ तत्पुत्रत्वादिहेतूनां गमकत्वं न दृश्यते । पक्षधर्मत्व- हीनोऽपि [ गमकः कृत्तिको ]दयः ॥ ८३ ॥ अन्तर्व्याप्तेरतः सैव गमकत्व-प्रसाधनी । मुहूर्तावधिक: काल (लः) शकटा (टोद) यवानिति ॥ ८४ ॥ तद्वत्त्वे स्यादयस्कारकुटिधमान्नगाग्निं च १ । क्रोशादधिकदेशोऽयमग्निमानिति कल्पनात् ॥ ८५ ॥ ततो गमकता हेतोरन्तर्व्याप्तेनं [ चान्यथा ] | पक्षधर्मत्ववान्सर्वो हेतुरेवेति नेष्यते ॥ ८६ ॥ तद्वत्येवाविनाभावाद्धेतुस्तद्वानितीत्यसत् । पक्षधर्मत्व-वैकल्ये ऽप्यन्यथानुपपत्तिमान् ॥ ८७ ॥ हेतुरेव यथा सन्ति प्रमाणानीष्टसाधनात् । अप्रमाणानहीष्टाप्तिरनिष्टाप्तेश्च सम्भवात् ॥ ८८ ॥ ततस्त [द्विकलहेतो ] रद्दष्टान्तेऽपि हेतुता । ततस्तद्वयवहारादेरन्यथानुपपत्तितः ॥ ८६ ॥ क्षणानामेकताऽभावात्क्रमाने कान्त-सुस्थितिः ।
इति श्रीमद्वादीभसिंह सूरि - विरचितायां स्याद्वादसिद्धौ क्षणिकवादिनं प्रति क्रमानेकान्त - सिद्धिः ॥ ४ ॥
Jain Education International
२१
For Private & Personal Use Only
www.jainelibrary.org