________________
स्याद्वाद-सिद्धी
न बहिर्गमकत्वं हि बहिस्सत इवासतः । बहिरन्वयिनो व्याप्तिः साध्येन सुखनिश्चया ॥७० ।। नान्यस्य तत्तयो व तुल्या गमकतेत्यसत् । सा न यस्य च दृष्टान्त एव चेद्वयाप्तिनिश्चयः ।। ७१ ॥ व्यर्थेयं साध्यनिर्णीतिईष्टान्ते [हि दृष्टान्त]रात् । तद्विनिश्चयतस्तत्र सार्थ्यांनीतिकल्पने ॥ ७२ ॥ तद्विनिश्चयतः सा स्यात्तस्याः स इति दूरणात् । दृष्टान्तेऽप्यन्यदृष्टान्ते यदि व(त)निर्णयस्तदा ॥७३॥ तत्रापि चान्यतस्तत्राऽप्यन्यतश्चेति न स्थितिः । साकल्ये वै(नैव) दृष्टान्ते यदि तन्निर्णयः स वै ॥७४। पक्षेऽप्यवश्यं [खलु स्यात् दृष्टान्ते न हि सोऽन्यथा । तस्मादवश्यंभावित्वादन्तव्याप्तिस्तयैवं च ॥ ४५ ॥ सान्वये गमकत्वाच्च परत्राऽपि तयैव तत् । . 'अन्तरप्यवसायश्चेद्वयाप्तेः स्यादनुमा वृथा ॥७६ ॥ . तस्मादेव प्रसिद्धत्वात्साध्यस्यापीति चेदसत् । द्वय-स्वरूप-ग्रहणे सति सम्बन्ध-वेदनम् ।। ७७ ।। इति ब्रुवा[णस्य सोऽयं दोषः स्याद्वादिनां तु नः (न)। तथोपपत्तिरेवेयमन्यथानुपपन्नता ॥ ७८ ॥ सा च हेतोः स्वरूपं तत् ह्यन्तर्व्याप्तिश्च विद्धि नः । सामग्री-विकलत्वेन सङ्केतरहितो न ताम् ।। ७६ || वेतैव हेतुदृष्टा च क्षणिकत्वादिकं यथा ? । किश्बोहात् साध्यमात्रस्य वित्तिः स्यादनुमानतः ॥५०॥ व्याप्ति ?]काल-विशिष्टस्य तस्येति सफलाऽनुमा । अपि च व्याप्ति-काले हि साध्यधर्मस्य निर्णयः ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org