________________
१८
स्याद्वाद - सिद्धौ
इत्यसारं, तथात्वेऽपि कां (का) [लं] चापेक्ष्य कार्यकृत् । प्रतिपक्षाव्युदासेन न च पक्षव्यवस्थितिः ॥ ४६ ॥ तद्वयोरप्य [भेदः स्यात्प्राक्तनो ] तरभावतः । किञ्चात्रैकमुपादानं सहकार्येव वा भवेत् ॥ ४७ ॥ रूपाद्यन्यतमं च स्यात्तस्मादेवं च सांशता । पूर्वापरत्वमात्रेण नियतेनात्र कल्प्यते ॥ ४८ ॥ कार्यकारणरूपत्वं बीजाङकुरवदित्यसत् । निरंशे नियमाभावः प्रागेव [ प्रतिषेधितः ] ॥ ४६ ॥ बीजाङकुराद्यसाङ्कर्यं सांशेऽर्थे शक्य शक्तितः । हेतोः सकृदनेकान्ते सांशत्वं च समर्थितम् ॥ ५० ॥ न च पूर्वापरीभावनियमे मानमित्यपि । एकान्तक्षणिकं वस्तु तन्नास्त्यर्थक्रियाऽत्ययात् ॥ ५१ ॥ (ख) शृङ्गवदित्येवं तदेकान्तो निरा [ कृतः ] । .....हानौ व्याप्यक्षणिक हानित: ।। ५२ ।। नित्यवत्तदभावाद्धि नित्याभावोऽपि सम्मतः । ततः सन्तान - सादृश्य-साध्य-साधन तत्क्रियाः ॥ ५३ ॥ तासां च कल्पका बोधा न स्युः क्षणिकवादिनाम् । अन्यथानुपपत्त्या च स्मृत्यादेः स्यादभिन्नता ॥ ५४ ॥ न हि [ स्यादेकताऽभावे बौद्धानां ] स्मरणादिकम् । एकसन्तानचित्तेषु पूर्वपूर्व प्रवर्तिते ॥ ५५ ॥
उत्तरस्यैव तद्द्द्रष्टः स्याद्भ ेदोऽस्तु [हि] सन्ततौ । न स्यात्सन्तत्यभेदेऽपि विस्मृतिश्चेत्स्मृतिः कथम् ॥ ५६ ॥ भेदैकान्ते, ततो युक्तं तद्वयं स्यादभेदतः । वासनातः स्मृतिश्चेत्साऽनित्ये ( त्यै ) व स्यान्न चापरा ।। ५७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org