SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ४. क्रमानेकान्त - सिद्धि: यद्युपादानतैव स्यात्सहकृत्वं प[रत्र न ] | [अन्य]रभेदतो वस्तु सहकार्यन्यदेव वा ॥ ३६ ॥ रूपादीनां रसादावप्युपादानत्वमेव चेत् । नोपादानभिदा किं च कार्याणां स्याच्च सङ्करः ॥ ३७ ॥ यथा रूपमुपादानं रूपस्यैवं रसस्य च । तथा चायं रसो न स्याद्र पोपादानरूपवत् ॥ ३८ ॥ [ रसो हि ] न भवेदेष रसोपादानभावतः । रूपस्येव रसस्यापि सहकृत्वं रसे यदि ॥ ३६ ॥ रसस्याभाव एव स्यात्तदुपादान- हानितः । कल्पितं चेदुपादानं कार्ये च स्यादवास्तवम् ।। ४० ।। एवं रूपादिकार्येऽपि वक्तव्यं स्यात्तरो ( तो ) भवेत् । एकस्यैव द्विधा शक्तिरुपादा[ नान्य-भावतः ] ॥ ४१ ॥ तद्वयत्वं च रूपादेः स्वान्यकार्यं प्रतीक्षते । रसाद्र पानुमानं च नान्यथा हि प्रसिद्धयति' ।। ४२ ।। किञ्चैककार्यकारित्वमेकदा यत्तदन्यता (दा) | अन्य कार्यविधायित्वं चेति नित्येऽपि युज्यते ॥ ४३ ॥ एक तद्विना शक्तिभेदेन क्रमेणानेककार्यकृत् । नित्यं चेत्यस्य स [त्त्वं च स ] त्वं ह्यर्थक्रियाकृतः ॥ ४४ ॥ प्राक्तनोत्तरयोर्नित्ये कार्यकारित्वयोर्यदि । अभेदः सर्वथाऽशेषं कार्यं प्रागेव नोत्तरः ।। ४५ ।। १ एकसामग्यधीनस्य रूपादे रसतो गतिः । हेतुधर्मानुमानेन धूमेन्धनविकारवत् ॥ १७ Jain Education International - प्रमाणवार्तिके (१- ११ ) धर्मकीर्तिः | For Private & Personal Use Only www.jainelibrary.org
SR No.003653
Book TitleSyadvadasiddhi
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1950
Total Pages172
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy