________________
स्याद्वाद-सिद्धी
प्रागसत्सत्पुनश्चेत्स्यात्क्षणिकत्वं विनश्यति । पौर्वापर्ये हि सत्येव वस्तुनस्तद्वयं भवेत् ॥ २४ ॥ नैवं स्याद्वादिनां दोषः [सदसद्रव्यभा]वतः । व्यक्त्यात्मना ह्यसत्पूर्व सद्विपक्षात्तदात्मना ।। २५ ।। चैत्रैकज्ञानवचित्रे क्रमेणाऽपि च वस्तुना(नः)। कार्यकारणतेष्टा तैस्तथा निर्बाधबोधतः ।। २६ ।। व्यक्तिरूपं न चेत्पूर्व तच्छक्तरेव भावतः । तथाऽप्यनित्यतैव स्यादभेदे शक्ति-तद्वतोः ॥ २७ ॥ भेदाभेदेऽप्यभेदस्य सत्वं हि स्यादनित्यता। पर्यायस्यैव युक्ता स्याइँदैकान्ते हि युक्तता ॥२८ ।। इति चेन्न तथाऽनिष्टेनष्टानष्टत्वदर्शनात् । द्रव्य-पर्यायतैकस्य वस्तुनो ह्यत्र सम्मता ॥ २६ ।। नष्टमेव ह्यनष्टं च तथा निर्बाधबोधतः । तत्तत्स्थैर्येतरात्मत्वाद्र्व्य-पर्यायतेष्यते ॥ ३० ॥ द्रिव्यपर्यायतै कस्मिन्न स्यात्तद्धि द्वयोर्यदि । द्वित्वं च स्यानयोद्धाराद् द्रव्यं पर्याय इत्यतः ॥ ३१ ।। द्रव्याविनाशे पर्याया नाशिनः किं तदात्मकाः। नष्टाः पर्यायरूपेण नो चेद्व्य-स्वभावतः ।। ३२ ।। किमन्यरूपता तेषां न चेन्नाशस्तदा कथम् । इत्यादिबौद्ववाङ्मौढ्यादज्ञाते [न विकल्पनम् ।। ३३ ।। ततः स्यात्कार्यकारित्वं स्याद्वादे युक्ति-भूषितम् । क्षणिकैकान्ते तु नैव स्यादुक्त-दूषण-सम्भवात् ।। ३४ ।। किञ्च क्षणिकतः कार्ये नानाशक्त्यात्मकं च तत् । उपादानं स्वकार्ये हि परत्र सहकार्यपि ॥ ३५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org