________________
४. क्रमानेकान्त - सिद्धिः
प्रकृत्यैवेति चेदेवं भेदाभावेऽपि भेदधीः । अभेदधवदेव स्यात्प्रकृत्येति मतान्तरम् ।। १२ ।। भेदोऽस्ति चेदबाधत्वात्तत [ अभेदोऽपि कथ्यताम् ] । [ ना ]पि विरोधतश्चेत्स्यान्न स्यात्सन्तानकल्पना ।। १३ ।। तस्मात्सन्तान इष्टश्चेद्भेदाभेदात्मकश्च सः । अभेदश्चैकतैवेति कच्चि (चि ?) तेष्वेकता स्थिता ।। १४ ।। एकत्वं कल्पितादेव सादृश्यादेः क्षणेषु न । कल्पनानुपपत्तेश्च कल्पनाहेत्वभावतः ।। १५ ।। निरंश: कल्पको न स्यात्तेनैकस्यैव वेदनात् । [ इदं सम] मनेनेति वेदनं हि द्विवेदिनः ॥ १६ ॥ निरंशाद्वि (द्धि) हे नानास्वभावान्न निरंशता । नरोन्मुख स्वभावेन ज्ञातोऽश्वो हि नरो भवेत् ॥ १७ ॥
एकस्वभावतोऽनेकवित्तिश्चेत्तत्स्वभावतः । नानाकार्यं प्रधानात्स्यात्तन्न तेन द्वि-वेदनम् ॥ १८ ॥ वास्तवाकेन (विक ?) रूपरचेत्कल्पक (:) स्व-मत-क्षयः । [अथ चाने] करूपरचेत्कल्पकान्तरतोऽस्थितिः ।। १६ ।। तद्धेतुरपि नाऽपोहस्तस्य पूर्वं निषेधनात् । अथैककार्यकारित्वं तद्धेतुश्चेत्तदप्यसत् ।। २० ।। यथा गो-व्यपदेशे (शः) स्यादेक-कार्य-विधानतः । खण्डादिश्चक्षुरादिश्च स्याद्र प-व्यपदेशभाक् ।। २१ ।। रूपमित्येकविज्ञानं तस्मादपि [हि जायते ] | [ तदे]वं व्यपदेशोऽत्र तत्कारित्वं च तन्न सः ॥ २२ ॥ किञ्च क्षणिकतः कार्यं सद्भवेदसदेव वा । सच्चेन्न कारणापेक्षा वा (ना) सतो हेत्वधीनता ।। २३ ।।
Jain Education International
For Private & Personal Use Only
१५
www.jainelibrary.org