________________
१२
स्याद्वाद-सिद्धौ
दानादिसहकृयुक्ता चेत्ता चायं न नस्य तैः । नो चेदतिशयो धा(याधा)[नं कथं स्यादा]निता च तत् ॥५२॥ विनाऽप्यतिशयाधानं चित्तात्तत्सहितादयम् । नियमश्चेत्तथा कि न नित्यादर्थक्रिया भवेत् ।। ५३ ।। प्रकृत्या नियमोऽयं चेच्चिच्चैवं भूत-संहतेः । प्रकृत्यैव विजातीयकार्यस्यापि हि सम्भवः ।। ५४ ।। स्वालक्षण्यातिरिक्तं चेच्चिदचित्वं स्वलक्षणे। [भूतिसंहतिर]त्र स्यादन्यथा सा हि शब्दतः ।। ५५ ।। व्यावृत्त्या चिदचित्वं च वास्तवं किमवास्तवम् । पूर्वं चेत्स्यादनेकान्तः परं चेदुभयं समम् ।। ५६ ।। तथा स्याच्चदुपादानमचिच्चे त मतान्तरम् । ततश्चिञ्चित एव स्यादित्ययं नियमोऽपि न ॥ ५७ ।। दातुरेव ततः स्वर्गो [नास्याप्यस्ति नियामकम् । न ब्यावृत्त्यादिनाऽप्येष नियमो मानगोचरः ।। ५८ ।। न हि संसारिणां मानानियमे(मो) दृश्यतेऽधुना। बौद्धागमस्तु मानं न मान-द्वैविध्य-हानितः ।। ५६ ।। अनुमानात्मकः सोऽपि मानं चेल्लिङ्गमात्रकम् । न हि तनियमे किंचिदविनाभावि [साधनम् ] ।। ६० ॥ अनुमानं तु लिङ्गार्थं तल्लिङ्ग च त्रिधा मतम् । कार्यलिङ्गतु नाऽत्रास्ति कार्यस्यैवाविनिश्चयात् ।। ६१ ।। कार्यकारणयोर्यस्मान्नैरंश्ये नियतिक्षयः । भावस्यैवाऽत्र साध्यत्वात्तन्न चानुपलम्भनम् ॥ ६२ ।। स्वभावाख्यं च वस्तुत्वे साध्यसाधन धर्मयोः] । ब्यावृत्त्या तदयुक्तत्वात्तथा चैकमनेकधा ।। ६३ ।।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org