SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ३. युग पदनेकान्त सिद्धि: किञ्च व्याप्तिग्रहोऽध्यक्षात्साध्यसाधनधर्मयोः । ग्रहणादेव तन्निष्ठा न हि ग्राह्या तदग्रहे ॥ ६४ ॥ स्वालक्षण्यमिवामिथ्या वर्मभेदोऽक्षजग्रहात् । व्याप्तिश्चेदनुमा ग्राह्या न स्थितिर्नापरा प्रमा ।। ६५ ।। [न वा स्मरणशक्तेः स्यान्नियमोऽयं न चान्यथा । व्यावृत्त्यादेरहेतुत्वान्नियमे च प्रमात्ययात् ॥ ६६ ॥ कार्यत्वमपि चित्ते स्याद्वास्तवं यद्यवास्तवम् । कारणत्वं च मिथ्या स्यात्कार्यापेक्षं हि कारणम् ।। ६७ ।। एवं सत्त्वमनित्यत्वमपि चित्तेऽस्तु वास्तवम् । नान्यथा [ चेतनं यस्मा] दवस्तुत्वात्स्वलक्षणम् ।। ६८ ।। भेदश्चेत्कारणत्वादेश्वित्तात्स्यात्सर्वथा तदा । कारणत्वादिकं किंचिदन्यद्र पाद्रसादिवत् ॥ ६६ ॥ अभेदैकत्वमेव स्यान्न च पक्षान्तरं कथम् । पक्षद्वयेऽपि लभ्यं स्याच्चित्ते कारणतादिकम् ॥ ७० ॥ इत्यादिचोद्यमप्यत्र बौद्धैश्च द्वेष्य [ कारणम् ] । [ चोद्य ] स्याकारणत्वेन किं न तन्नियमक्षयः ।। ७२ ।। तत्क्षयेऽपि वृथा दानं हन्ताऽपि स्वर्गभाग्यतः । ततो गत्यन्तराभावात्स्याद्भेदाभेद इष्यताम् ।। ७२ ।। चित्तं कारणमित्यस्ति प्रतीतिश्च तथा ग्रहात् । भेदाभेदप्रतीतिश्च नान्या सम्बन्धदूषणात् ।। ७३ ।। [भेदाभेदात्मको बोध ] स्तैरेवात्रेष्टमन्यथा । नियम-ध्वंसनादेवं वस्त्वनेकात्मकं सकृत् ॥ ७४ ॥ इति श्रीमद्वादीभसिंहसूरि- विरचितायां स्याद्वादसिद्धौ क्षणिकवादिनं प्रति युगपद नेकान्त - सिद्धिः ॥ ३ ॥ Jain Education International | Codispot For Private & Personal Use Only १३ www.jainelibrary.org
SR No.003653
Book TitleSyadvadasiddhi
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1950
Total Pages172
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy