________________
५६ वितीये सूत्रकृतांगे वितीय श्रुतस्कंधे चतुर्थाध्ययन कृष्टेषु वधकचित्तं नोत्पद्यते तथाप्यसावविरतिप्रत्ययत्वात्तेष्वमुक्तवैरएव नवत्यस्य चार्थ स्य सुरवप्रतिपत्तये जगवता तीर्थकता नौ दृष्टांती प्राप्तौ प्ररूपितौ । तद्यथा । संझिदृष्टां तोऽसंझिदृष्टांतश्च । अथ कोयं संझिदृष्टांतो ये केचन इमे प्रत्यक्षासन्नाः षड्निरपि पर्याप्ति निः पर्याप्ताकहापोह विमर्शरूपाः संज्ञा विद्यते येषां ते संझिनः पंचेश्यिाणि येषां ते पंचेदि याः करणपर्याप्या पर्याप्तकाएषां च मध्ये कश्चिदेकः षड्जीवनिकायान् प्रतीत्यैवंजूतां प्र तिझा नियमं कुर्यात् । तद्यथा । षट्सु जीवनिकायेषु मध्ये प्रथिवीकायेनैवैकेन वालुका शिलोपत्ललवणादिस्वरूपेण कृत्यं कार्य कुयो । सचैवं कृतप्रतिझस्तेन तस्मिन् तस्मात्तं वा करोति कारयतिच शेषकायेन्योऽहं विनिवृत्तस्तस्यच रुतनियमस्यैवंनूतोनवत्यध्यव सायः। तद्यथैवं खल्वहं पृथिवीकायेन कृत्यं करोमि कारया मिच तस्यच सामान्यकृत प्रतिज्ञस्य विशेषानिसंधिनैव नवति । तद्यथा । अमुना कमेनामुना श्वेतेन एथिवी कायेन कार्य करोति कारयतिच सतस्मात्ष्टथिवीकायादनिवृत्तोऽप्रतिहतप्रत्याख्यातपा पकर्मा नवति । तत्र खननस्थाननिषीदनत्वग्वर्तनोचारप्रश्रवणादिकरण क्रियासनावा देवमप्तेजोवायुवनस्पतिष्वपि वाच्यं । तत्राप्रकायेन स्नानपानावगाहननांमोपकरण धावनादिषु प्रयोगस्तेजःकायेनापि पचनपाचनप्रकाशनादिषु वायुनापि व्यंजनतालवंते त्यादिव्यापारादिषु प्रयोजनं वनस्पतिनापि कंदमूलपुष्पफलपत्रत्वकशाखाद्युपयोगएवं विक लेंश्यिपंचेंशियेष्वप्यायोज्यमिति । तथैकः कश्चित् षट्स्व पि जीवनिकायेषु अविरतोसं यतत्वाच तैरसो कार्य सावद्यानुष्ठानं स्वयं करोति कारयतिच परैस्तस्यच क्वचिदपि निवृत्ते रनावादेवंनूतोध्यवसायोनवति । तद्यथैवं खल्वहं षनिरपि जीवनिकायैः सामान्येन क त्यं करोमि न पुनस्तविशेषप्रतिज्ञेति। सच तेषु षड्स्वपि जीवनिकायेष्वसंयतोऽप्रतिहतप्र त्याख्यातपापकर्मा नवत्येवं मृषावादेपि वायं । तद्यथेदं मया वक्तव्यमोहग्नतं तु न वक्तव्यं सच तस्मान्मृषावादादनिवृत्तत्वादसंयतोनवति । तथा दत्तादानमप्याश्रित्य वक्तव्यं । त यथेदं मया दत्तादानं ग्राह्यमिदंतु न ग्राह्यमित्येवं मैथुनपरिग्रहेष्वपीति । तथा क्रोधमान मायालोनेष्वपि स्वयमन्यूह्य वाच्यं । तदेवमसौ हिंसादीन्यकुर्वन्नप्यविरतत्वात्तत्प्रत्ययिक कर्म चिनोतीत्येवं देशकालस्वनावविप्रष्टष्वपि जंतुष्वमित्रनूतोसौ नवति तत्प्रत्ययिक चकर्म चिनोतीति सोयं संझिदृष्टांतोऽनिहितः। सच कदाचिदेकमेव पृथिवीकार्य व्यापाद यति शेषेषु निवृत्तः कदाचिट्ठावेवं त्रिकादिकाः संयोगाननीयायावत्सर्वानपि व्यापा दयतीति । सचैवं सर्वेषां व्यापादकत्वे न व्यवस्थाप्यते सर्व विषयारंनप्रवृत्तेस्तत्प्रवृत्तिरपि तदनिवृत्तेः । यथा कश्चिद्यामघातादौ प्रवृत्तीयद्यपिच न तेन विवक्षितकाले केचन पुरुषा दृष्टास्तथाप्यसो तत्प्रवृत्तिनिवृत्तेरनावात्तद्योग्यतया तद्घातकश्त्युच्यते इत्येवं दार्टीति केप्यायोज्यम् ॥ ७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org