________________
६८
द्वितीये सूत्रकृतांगे द्वितीयश्रुतस्कंधे द्वितीयाध्ययनं.
1
काषिकाः पराविज्ञाताः क्रियाः कुर्वतीत्यर्थः । तेच स्वचेष्टयैवोलूकपत्रवल्लघवः कौशिक पिवलघीयांसोपि पर्वतवगुरुमात्मानं मन्यंते । यदिवा कार्यप्रवृत्तेः पर्वतवन्नो स्तंन यितुं शक्यते ते चाऽऽर्यदेशोत्पन्नापि संतः शाठ्यादात्मप्रवादनार्थमपरजयोत्पादनार्थ चानार्यभाषाः प्रयुंजते परव्यामोदार्थं स्वमतिपरिकल्पितनाषा निरपराऽविदिता निर्मा ते तथाऽन्यथाऽव्यवस्थितमात्मानमन्यथासाध्वाकारेण मन्यते व्यवस्थापयंति तथाऽ न्यत्ष्टष्टामातृस्थानतोऽन्यदाचक्षते । यथाम्रान् ष्टष्टाः कोविदारकानाचक्षते । वादकालेवा कश्चिन्नाथवादितया व्याकरणे प्रवीणस्तर्कमार्गमवतारयति । यथावा शरदि वाजपेयेन यजेतेत्यस्य वाक्यस्यार्थे ष्टष्टस्तदर्थाननिज्ञः कालातिपातार्थ शरद्कालं व्यावर्णयति । तथा Sea कथयितव्येऽन्यमेवार्थमाचक्षते । तेषां सर्वार्थविसंवादिनां कपटप्रपंचचतु ari विपाको वनाय दृष्टांतं दर्शयितुमाह ॥ २१ ॥ ( सेजहेत्यादि ) यथानाम कश्चित्पुरु पः संग्रामादपत्रांतोंऽतर्मध्ये शल्यं तोमरादिकं यस्य सोऽतःशव्यः सच राज्यघट्टनवेदनाची रुतया तबल्यं न स्वत्तोनिर्हरत्यपनयति उद्धरति तथाप्यन्येन नोद्धारयति नापि तबल्यं वै द्योपदेशेनौषधोपयोगादिनिरुपायैः प्रतिध्वंसयति विनाशयति अन्येन केन चित्ष्टष्ठोवाऽष्टष्टो वातल्यं निष्प्रयोजनमेव निन्दुतेऽपलपति तेन च शल्येनासावंतर्वर्तिना ( अविजट्ट मात्ति) पीड्यमानः ( अंतोत्ति) मध्येमध्ये पीड्यमानो पिरीयते व्रजति तत्कृतां वेदनाम सहमान: क्रियासु प्रवर्ततइत्यर्थः । सांप्रतं दाष्टतिकमाह । (एवमेवेत्यादि) यथाऽसौ स शल्यो डुःखनाग्नवत्येवमेवासौ मायी मायाशव्यवानन्यत्कृतमकार्य तन्मायया गूहयन् मायां त्वा न तां मायामन्यस्मै यालोचयति कथयति नापि तस्याः स्थानात्प्रतिक्रामति न ततो निवर्तते नाप्यात्मसादिकं तन्मायाशल्यं निंदति । तद्यथा धिङ्मां यदहमेवंनूत मकार्यं कर्मोदयात्कतवांस्तथा नापि परसादिकं गर्हति खालोचनार्दसमीपे गतोनापि च जुगुप्सते तथा (नोविनवृत्ति ) नापि तन्मायाख्यं राज्यमकार्यकरणात्मकं विविधमने कप्रकारं त्रोटयत्यपनयति । यद्यस्यापराधस्य प्रायश्चित्तं तत्तेन पुनस्तदकरणतया निवर्त्त यतीत्यर्थः । नापि तन्मयादिकमकार्य से वित्वा लोचनार्थायात्मानं निवेद्य, तदकार्य करणतया न्युत्तिष्ठते प्रायश्चित्तं प्रतिपद्यापि नोयुक्तविहारी नवतीत्यर्थः । तथा नापि गुर्वादिनि र निधीयमानो पि यथार्हमकार्य निर्वहणयोग्यं प्रायश्चित्तं शोधयतीति । प्रायश्चित्तं तपः कर्म विशिष्टं चांद्रायणाद्यात्मकं प्रतिपद्यते ऽच्युपगच्छति । तदेवं मायया सत्कार्य प्रवादको Sस्मिन्नेव लोके मायावीत्येवं सर्वकार्येष्वेवाविनसत्वेन प्रत्यायाति प्रख्यातिं याति त यातच सर्वस्यापि विश्वास्योद्भवति । तथाचोक्तं । मायाशीलः पुरुषइत्यादि । तथाति मायावित्वादसी परस्मिन् लोके जन्मांतराऽवाप्तौ सर्वाऽयमेषु यातनास्थानेषु नरकतिर्य गादिषु पौनःपुन्येन प्रत्यायाति नूयोभूयस्तेष्वेवारघट्टघटीयंत्रन्यायेन प्रत्यागष्ठतीति
I
Jain Education International
For Private Personal Use Only
www.jainelibrary.org